________________
२४०
स्वोपज्ञलघुवृत्तिविभूषितं
आभ्यामनुपसर्गाभ्यां श: स्यात् । लिम्पः , विन्दः ॥६०॥
नि-गवादेर्नाम्नि ।५।२६१॥ यथासङ्ख्यं निपूर्वाल्लिम्पेर्गवादिपूर्वाच्च विन्दे: संज्ञायां श: स्यात् । निलिम्पा देवाः , गोविन्दः , कुविन्दः । नाम्नीति किम् ? निलिपः ॥६१।।
वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोर्णः ।५।११६२॥ ज्वलादेादेरास्रोश्चानुपसर्गाण णो वा स्यात् । ज्वल: , ज्वाल: ; चल: चाल: ; दव: , दाव: ; नय: , नायः ; भव: , भावः ; ग्राहो मकरादि: , ग्रहः सूर्यादिः ; आस्रव: , आस्रावः । अनुपसर्गादित्येव-प्रज्वलः ॥६२।।
अवह-सा-संस्रोः ।।११६३॥ अवपूर्वाभ्यां ह-साभ्यां संपूर्वाच्च स्रोर्णः स्यात् । अवहार: , अवसाय: , संस्रावः ॥६३॥
तन्-व्यधीण-श्वसातः ।५।११६४॥ एभ्य आदन्तेभ्यश्च धातुभ्यो ण: स्यात् । तान: , व्याध: , प्रत्याय: , श्वासः , अवश्यायः ।।६४।।
नृत्-खन्-रञ्जः शिल्पिन्यकट् ।५।१॥६५॥ एभ्य: शिल्पिनि कर्त्तर्यकट् स्यात् । नर्तकी , खनक: , रजकः । शिल्पिनीति किम् ? नर्तिका ||६५।।
गस्थकः ।५।१॥६६॥ ग: शिल्पिनि कर्त्तरि थक: स्यात् । गायकः ||६६||
टनण् ।५।१।६७॥ ग: शिल्पिनि टनण् स्यात् । गायनी ॥६७।।
हः काल-व्रीह्योः ।५।१।६८॥ हाको हाङो वा काल-व्रीह्योष्टनण् स्यात् । हायनो वर्षम् , हायना व्रीहयः , हाताऽन्यः ॥६८||
पु-सृ-ल्वोऽकः साधौ ।५।१६९॥ १. 'ज्वलादे: दु-आदेः आस्रोश्च' इति पदच्छेदः । 'ज्वलादेर्धातोर्दुनोत्यादेरास्रोचा' P2, J3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org