SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २४२ स्वोपज्ञलघुवृत्तिविभूषितं प्राज्ञश्च | ५ | ११७९ ॥ कर्मणः परात् प्रपूर्वाद् ज्ञो दारूपाच्च डः स्यात् । पथिप्रज्ञः प्रपादः ॥ ७९ ॥ आशिषि हनः | ५ | १|८०| , , कर्मणः पराद् हन्तेराशिषि डः स्यात् । शत्रुहः ||८०|| क्लेशादिभ्योऽपात् ।५।११८१ ॥ क्लेशादिकर्मणः परादपाद् हन्तेर्ड: स्यात् । क्लेशापहः, तमोऽपहः || ८१ || कुमार - शीर्षाणिन् ।५।१।८२ ॥ आभ्यां कर्मभ्यां पराद् हन्तेर्णिन् स्यात् । कुमारघाती शीर्षघाती ॥ ८२ ॥ अचित्ते टक् ।५।१।८३ ॥ I कर्मणः पराद् हन्तेरचित्तवति कर्त्तरि टक् स्यात् । वातघ्नं तैलम् । अचित्त इति किम् ? पापघातो यतिः ||८३ || जाया - पश्चिवति | ५ | १|८४ ॥ , , आभ्यां कर्मभ्यां पराद् हन्तेश्चिह्नवति कर्त्तरि टक् स्यात् । जायाघ्नो ब्राह्मणः पतिघ्नी कन्या ॥ ८४॥ ब्रह्मादिभ्यः | ५ | १|८५ ॥ एभ्यः कर्मभ्यः पराद् हन्तेष्टक् स्यात् । ब्रह्मघ्नः, गोम्नः पापी ॥ ८५ ॥ हस्ति बाहू - कपाटाच्छक्तौ |५|१|८६ ॥ - एभ्यः कर्मभ्यः पराद् हन्तेः शक्तौ गम्यायां टक् स्यात् । हस्तिघ्नः कपाटघ्नः । शक्ताविति किम् ? हस्तिघातो विषदः || ८६|| नगदग | ५|१|८७॥ Jain Education International For Private & Personal Use Only ? नगरात् कर्मणः पराद् हन्तेरगजे कर्त्तरि टक् स्यात् । नगरघ्नो व्याघ्रः । अगज इति किम् ? नगरघातो हस्ती || ८७|| राजघः | ५|१|८८ ॥ राज्ञः कर्मणः पराद् हन्तेष्टक् घाऽऽदेशश्च निपात्यते । राजघः ||८८|| पाणिघताडघौ शिल्पिनि | ५ | १|८९ ॥ - एतौ शिल्पिनि टगन्तौ निपात्येते । पाणिघः, ताडघः । शिल्पिनीति किम् बाहुघ्नः www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy