________________
२३६
स्वोपज्ञलघुवृत्तिविभूषितं
क्रतुः ॥२२॥
प्रणाय्यो निष्कामा-ऽसंमते ।५।११२३॥ प्राद् नियो घ्यणायादेशौ स्यातां निष्कामेऽसंमते चार्थे । प्रणाय्य: शिष्यश्चौरो वा ॥२३॥ धाय्या-पाय्य-सानाय्य-निकाय्यमृङ्-मान-हवि-र्निवासे ।५।१।२४॥
एते ऋगादिषु यथासङ्ख्यं घ्यणन्ता निपात्यन्ते । धाय्या ऋक् , पाय्यं मानम् , सान्नाय्यं हविः , निकाय्यो निवासः ||२४|| ___ परिचाय्योपचाय्या-ऽऽनाय्य-समूह्य-चित्यमग्नौ ।५।१।२५॥ .
एतेऽग्नौ निपात्यन्ते । परिचाय्य: , उपचाय्य: , आनाय्य: , समूह्य: , चित्यो वाऽग्निः ।।२५।।
___ याज्या दानर्चि।।१।२६॥ यजे: करणे दानर्चि घ्यण् स्यात् । याज्या ।।।२६।।
तव्या-ऽनीयौ।५।११२७॥ एतौ धातो: स्याताम् । कर्त्तव्यः , करणीयः ।।२७||
य एच्चाऽऽतः ।५।१।२८॥ स्वरान्ताद् धातोर्य: स्यात् , आत एच्च । चेयम् , देयम् ॥२८॥ शकि-तकि-चति-यति-शसि-सहि-यजि-भजि-पवर्गात् ।५।१॥२९॥
एभ्य: पवर्गान्ताच्च य: स्यात् । शक्यम् , तक्यम् , चत्यम् , यत्यम् , शस्यम् , सह्यम् , यज्यम् , भज्यम् , तप्यम् , गम्यम् ।।२९॥
यम-मद-गदोऽनुपसर्गात् ।५।१॥३०॥ ____ एभ्योऽनुपसर्गेभ्यो य: स्यात् । यम्यम् , मद्यम् , गद्यम् । अनुपसर्गादिति किम् ? आयाम्यम् ॥३०॥
- चरेराङस्त्वगुरौ ।५।१३१॥ अनुपसर्गाच्चरेराङ्पूर्वात् तु अगुरौ य: स्यात्। चर्यम् , आचर्यो देश: । अगुराविति किम् ? आचार्यः ॥३१॥ १. यमि-मदि-गदो J2,3 पा३, P3मू, पासंर । यममदिगदो JIसं । यममदेगदो पा५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org