SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २३७ वर्योपसर्या-ऽवद्य-पण्यमुपेयर्तुमती-गद्य-विक्रेये ।५।१॥३२॥ एते उपेयादिषु यथासङ्ख्यं यान्ता निपात्यन्ते । वर्या कन्या , उपसर्या गौ: , अवद्यं गद्यम् , पण्या गौः ॥३२॥ स्वामि-वैश्येऽर्यः ।।१३३॥ अर्ते: स्वामि-वैश्ययोर्य: स्यात् । अर्य: स्वामी वैश्यो वा , आर्योऽन्यः ॥३३।। वह्यं करणे।५।१॥३४॥ वहे: करणे य: स्यात् । वा शकटम् ।।३४॥ नाम्नो वदः क्यप् च ।५।१॥३५॥ अनुपसर्गान्नाम्नः पराद् वदे: क्यप्-यौ स्याताम् । ब्रह्मोद्यम् , ब्रह्मवद्यम् । नाम्न इति किम् ? वाद्यम् ।।३५।। हत्या-भूयं भावे ।५।१॥३६॥ अनुपसर्गान्नाम्नः परौ हत्या-भूयौ भावे क्यबन्तौ साधू स्तः । ब्रह्महत्या , देवभूयं गतः । भाव इति किम् ? श्वघात्या सा ।।३६।। अग्निचित्या ।५।१॥३७॥ अग्ने: पराचे: स्त्रीभावे क्यप् स्यात् । अग्निचित्या ॥३७|| ___ खेय-मृषोद्ये ।५।११३८॥ एतौ क्यबन्तौ साधू स्त: । निखेयम् , मृषोद्यम् ।।३८॥ कुप्य-भिद्योध्य-सिध्य-तिष्य-पुष्य-युग्या-ऽऽज्य-सूर्यं नाम्नि ।५।१३९॥ एते क्यबन्ता: संज्ञायां निपात्यन्ते । कुप्यं धनम् , भिद्य: , उध्यो नद: , सिध्य: , तिष्य: , पुष्यः , युग्यं वाहनम् , आज्यं घृतम् , सूर्यो रवि: ॥३९।। दृ-वृग्-स्तु-जुषेति-शासः ।।१॥४०॥ एभ्य: क्यप् स्यात् । आदृत्यः , प्रावृत्यः , अवश्यस्तुत्यः , जुष्यः , इत्य: , शिष्यः ॥४०॥ ऋदुपान्त्यादकृपि-दृचः ।५।११४१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy