SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २३५ एते धात्वर्थमात्रे स्युः । कृत्वा , कर्तुम् , कारं कारं याति ॥१३॥ भीमादयोऽपादाने ।५।११४॥ एतेऽपादाने स्युः । भीम: , भयानकः ॥१४॥ संप्रदानाचान्यत्रोणादयः ।।१।१५॥ संप्रदानापादानादन्यत्रार्थे उणादय: स्युः । कारु: , कृषिः ॥१५॥ असरूपोऽपवादे वोत्सर्गः प्राक् क्तेः ।।११६॥ इत: सूत्रादारभ्य स्त्रियां क्ति: [५।३।९१] इत्यत: प्राग् योऽपवादस्तद्विषयेऽपवादेनासमानरूप औत्सर्गिक: प्रत्ययो वा स्यात्। अवश्यलाव्यम् , अवश्यलवितव्यम् । असरूप इति किम् ? घ्यणि यो न, कार्यम् । प्राक् क्तेरिति किम् ? कृतिः , चिकीर्षा ।।१६।। ऋवर्ण-व्यञ्जनाद् घ्यण् ।५।११७॥ ऋवर्णान्ताद् व्यञ्जनान्ताच्च धातोर्ध्यण् स्यात् । कार्यम् , पाक्यम् ॥१७|| पाणि-समवाभ्यां सृजः ।५।१।१८॥ आभ्यां सृजेर्घ्यण् स्यात् । पाणिसर्या , समवसर्या रज्जुः ॥१८॥ ___उवर्णादावश्यके ।।१।१९॥ अवश्यम्भावे द्योत्ये धातोरुवर्णान्ताद् घ्यण् स्यात् । लाव्यम् , अवश्यपाव्यम् ॥१९॥ आसु-यु-वपि-रपि-लपि-त्रपि-डिपि-दभि-चम्यानमः ।५।१२०॥ आङ्पूर्वाभ्यां सुग्-नम्भ्यां यौत्यादेश्व घ्यण् स्यात् । आसाव्यम् , याव्यम् , वाप्यम् , राप्यम् , लाप्यम् , अपत्राप्यम् , डेप्यम् , दाभ्यम् , आचाम्यम् , आनाम्यम् ।।२०।। वाऽऽधारेऽमावस्या ।५।१॥२१॥ अमापूर्वाद् वसतेराधारे घ्यण् धातोर्वा ह्रस्वश्च निपात्यते । अमावस्या , अमावास्या ।।२१॥ संचाय्य-कुण्डपाय्य-राजसूयं क्रतो ।५।।२२॥ एते क्रतावर्थे घ्यणन्ता निपात्यन्ते । संचाय्य: , कुण्डपाय्यः , राजसूयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy