________________
२३४
स्वोपज्ञलघुवृत्तिविभूषितं
एते अनीयप्रत्ययान्ता: कर्तरि वा निपात्यन्ते । प्रवचनीयो गुरुः शास्त्रस्य , प्रवचनीयं गुरुणा शास्त्रम् ; उपस्थानीय: शिष्यो गुरोः , उपस्थानीय: शिष्येण गुरुः ॥८॥
श्लिष-शीङ्-स्था-ऽऽस-वस-जन-रुह-जु-भजेः क्तः ।५।११९॥ एभ्य: क्तो यो विहितः स कर्त्तरि वा स्यात् । आश्लिष्टः कान्तां चैत्रः , आश्लिष्टा कान्ता तैः ; अतिशयितो गुरुं शिष्यः , अतिशयितो गुरुः शिष्यैः ; उपस्थितो गुरुं शिष्यः , उपस्थितो गुरु: शिष्यैः ; उपासिता गुरुं ते , उपासितो गुरुस्तैः , अनूषिता गुरुं ते , अनूषितो गुरुस्तैः ; अनुजातास्तां ते , अनुजाता सा तैः ; आरूढोऽश्वं स: , आरूढोऽश्वस्तैः ; अनुजीर्णास्तां ते , अनुजीर्णा सा तैः , विभक्ताः स्वं ते , विभक्तं स्वं तैः ॥९॥
आरम्भे ।५।१।१०॥ __ भूते य: क्तो विहितः स आरम्भार्थाद् धातोः कर्तरि वा स्यात् । प्रकृता: कटं ते , प्रकृत: कटस्तैः ॥१०॥
गत्यर्था-ऽकर्मक-पिब-भुजेः ।५।११११॥ ___ भूते यः क्तो विहितः स एभ्यः कर्तरि वा स्यात् । गतोऽसौ ग्रामम् , गतोऽसौ तैः ; आसितोऽसौ , आसितं तैः ; पीता: पयः , पीतं पयः ; भुक्तास्ते , इदं तैर्भुक्तम् ॥११॥
___ अद्यर्थाच्चाऽऽधारे ।५।१॥१२॥ आहारार्थात् धातोर्गत्यर्थादेश्च भूते य: क्त: स आधारे वा स्यात् । इदमेषां जग्धम् , तैर्जग्धम् ; इदं तेषां यातम् , तैर्यातम् ; इदमेषां शयितम् , तैः शयितम् ; इदं गवां पीतम् , गोभिः पीतम् ; इदं तेषां भुक्तम् , तैर्भुक्तम् ।१२।।
क्त्वा-तुमम् भावे ।५।११३॥ १. भूतादौ यः J1,2, पा१,३, P3 विना । “भूतादित्वेन विवक्षिते'' इति बृहद्वृत्ते: J प्रतौ, "भूतत्वेन विवक्षिते'' इति तु K प्रतौ P प्रतौ च । “भूतादित्वेन विवक्षिते' इति आदिशब्दाद् वर्तमानत्व-भविष्यत्त्वोरपि परिग्रहः, यथा ज्ञातुमारभते प्रज्ञातः, कषितुं प्रारप्स्यत इति प्रकष्टः" इति बृहद्वृत्तेर्ल घुन्यासे || २. भूतादौ यः पा१,३, P2,3, J1,3, बृहद्वृत्ते: K प्रतिं च विना | J2, पा४,५ मध्ये बृहद्वृत्ते: J प्रतौ च 'भूते' इति 'भूतादौ' इति वा किमपि नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org