________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
२३३
[ अंथ पञ्चमाध्यायः]
[प्रथमः पादः]
आ तुमोऽत्यादिः कृत् ।५।१११॥ धातोर्विधीयमानस्त्यादिवों वक्ष्यमाण: प्रत्ययस्तुमभिव्याप्य कृत् स्यात् । घनघात्यः । अत्यादिरिति किम् ? प्रणिंस्ते ॥१॥
बहुलम् ।५।२२॥ कृद् यथानिर्दिष्टादर्थादन्यत्रापि बहुलं स्यात् । पादहारकः , मोहनीयं कर्म , संप्रदानम् ॥२॥
कर्तरि ।५।१॥३॥ कृत् अर्थविशेषोक्तिं विना कर्तरि स्यात् । कर्त्ता ॥३॥
__ व्याप्ये घुर-केलिम-कृष्टपच्यम् ।५।१॥४॥ घुर-केलिमौ प्रत्ययौ कृष्टपच्यश्च व्याप्ये कर्तरि स्युः । भङ्गुरं काष्ठम् , पचेलिमा माषा: , कृष्टपच्या: शालयः ।।४||
संगतेऽजर्यम् ।।१५॥ संगमनं संगतम् , तस्मिन् कर्तरि नपूर्वात् जृषो यो निपात्यते । अजयम् आर्यसंगतम् । संगत इति किम् ? अजर: पटः ॥५||
रुच्या-ऽव्यथ्य-वास्तव्यम् ।५।११६॥ एते कर्त्तरि निपात्यन्ते । रुच्य: , अव्यथ्य: , वास्तव्य: ॥६॥
भव्य-गेय-जन्य-रम्या-ऽऽपात्या-ऽऽप्लाव्यं नवा ।५।११७॥ एते कर्तरि वा निपात्यन्ते । भव्यः , गेय: साम्नाम् , जन्यः , रम्य: , आपात्यः , आप्लाव्य: ; पक्षे -भव्यम् , गेयानि सामानि , जन्यम् , रम्यः , आपात्यम् , आप्लाव्यं तैः ।।७।।
प्रवचनीयादयः ।५।११८॥ १. पञ्चमाध्यायस्य लघुवृत्ति: इमान् हस्तलिखितादर्शानवलम्ब्य संशोधिता ---- J1. J2. J3. पा१. पार. पा३. पा४. पा५. P1. P2. P3. । एषामादर्शानांस्वरूपं ग्रन्थस्यादावेव दर्शितमस्माभिः ।। २. कृनिर्देक्ष्यमाणादा पा१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org