________________
२३०
स्वोपज्ञलघुवृत्तिविभूषितं
गौः । यीति किम् ? आलब्धाः ||१०४॥
उपात् स्तुतौ ।४।४।१०५॥ उपात् परस्य लभ: स्वरात् परो यादौ प्रत्यये स्तुतौ गम्यायां न अन्त: स्यात् । उपलम्भ्या विद्या । स्तुताविति किम् ? उपलभ्या वार्ता ॥१०५।।
जि-ख्णमोर्वा ।४।४।१०६॥ औ ख्णमि च लभ: स्वरात् परो न् अन्तो वा स्यात् । अलाभि , अलम्भि । लाभलाभम् , लम्भंलम्भम् ।।१०६॥
उपसर्गात् खल्धजोश्च ।४।४।१०७॥ उपसर्गाद् लभ: स्वरात् परः खल्-घजोर्जि-ख्णमोश्च परयोर्न अन्त: स्यात् । दुष्प्रलम्भम् , प्रलम्भः , प्रालम्भि , प्रलम्भंप्रलम्भम् । उपसर्गादिति किम् ? लाभः ।।१०७||
सु-दुर्यः ।४।४।१०८॥ आभ्यां व्यस्त-समस्ताभ्याम् उपसर्गात् पराभ्यां परस्य लभः , स्वरात् पर: खल्धञोर्न अन्त: स्यात् । अतिसुलम्भम् , अतिदुर्लम्भम् ; अतिसुदुर्लम्भम् , अतिसुलम्भः , अतिदुर्लम्भः ; अतिसुदुर्लम्भः । उपसर्गादित्येव-सुलभम् ॥१०८।।
नशो धुटि ।४।४।१०९॥ नशे: स्वरात् परो धुडादौ प्रत्यये न् अन्त: स्यात् । नंष्टा । धुटीति किम् ? नशिता ॥१०९||
मस्जेः सः।४।४।११०॥ मस्जे: स्वरात् परस्य सो धुडादौ प्रत्यये न् अन्त: स्यात् । मता ॥११०॥
___ अः सृजि-दृशोऽकिति ।४।४।१११॥ अनयो: स्वरात् परो धुडादौ प्रत्यये अदन्त: स्यात् , न तु किति । स्रष्टा , द्रष्टुम् । अकितीति किम् ? सृष्टः ॥१११।।
स्पृशादि-सृपो वा ।४।४।११२॥ स्पृश-मृश-कृष-तृप-दृपां सृपश्च स्वरात् परो धुडादौ प्रत्यये अदन्तो वा स्यात् , अकिति । स्प्रष्टा , स्पर्टी ; प्रष्टा , मर्टा ; क्रष्टा , कर्टा ; त्रप्ता , तर्ता १. नश्यति पार, P1मू ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org