________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
२२९
वा श्वा ।।९५||
वौ विष्किरो वा ।४।४९६॥ पक्षिणि वाच्ये विकिरते: स्सड् वा निपात्यते । विष्किरः , विकिरो वा पक्षी ॥१६॥
प्रात् तुम्पतेर्गवि ।४।४।९७॥ प्रात् तुम्पतेर्गवि कर्त्तरि स्सडादिः स्यात् । प्रस्तुम्पति गौः । गवीति किम् ? प्रतुम्पति तरुः ॥९७||
___उदितः स्वरान्नोऽन्तः ।४।४।९८॥ उदितो धातोः स्वरात् परो न् अन्त: स्यात् । नन्दति , कुण्डा ॥९८।।
मुचादि-तृफ-दृफ-गुफ-शुभोभः शे।४।४।९९॥ एषां शे परे स्वरान्न् अन्त: स्यात् । मुञ्चति , पिंशति , तृम्फति , दृम्फति , गुम्फति , शुम्भति , उम्भति ।।९९||
जभः स्वरे ।४।४।१००॥ जभ: स्वरात् पर: स्वरे परे न् अन्त: स्यात् । जम्भः ॥१००||
रध इटि तु परोक्षायामेव ।४।४।१०१॥ रध: स्वरात् पर: स्वरादौ प्रत्यये न् अन्त: स्यात् , इडादौ तु परोक्षायामेव । रन्धः , ररन्धिव । परोक्षायामेवेति किम् ? रधिता ॥१०१॥
रभोऽपरोक्षा-शवि ।४।४।१०२॥ रंभ: स्वरात् पर: परोक्षा-शव्वर्जे स्वरादौ प्रत्यये न् अन्तः स्यात् । आरम्भः । अपरोक्षाशवीति किम् ? आरेभे , आरभते ॥१०२।।
लभः ।४।४।१०३॥ लभः स्वरात् परः परोक्षा-शव्वर्जे स्वरादौ प्रत्यये न् अन्त: स्यात् । लम्भक: ।।१०३||
आङो यि ।४।४।१०४॥ आङ: परस्य लभ: स्वरात् परो यादौ प्रत्यये न् अन्त: स्यात् । आलम्भ्या १. रमेः J2 पा१,३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org