SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २३१ ; द्रप्ता , दर्ता ; स्रप्ता , सर्ता ॥११२॥ हस्वस्य तः पित्कृति ।।४।११३॥ ह्रस्वान्तस्य धातो: पिति कृति त् अन्त: स्यात् । जगत् । ह्रस्वस्येति किम् ? ग्रामणी: । कृतीति किम् ? अजुवुः ॥११३॥ अतो म आने।४॥४॥११४॥ धातोर्विहिते आने अतो म् अन्त: स्यात् । पचमानः । अत इति किम् ? शयानः ॥११४।। आसीनः ।४।४।११५॥ आस्ते: परस्य आनस्याऽऽदेरीनिंपात्यते । उदासीनः ॥११५।। __ ऋतां क्ङितीर् ।४।४।११६॥ ऋदन्तस्य धातोः क्ङिति प्रत्यये ऋत इर् स्यात् । तीर्णम् , किरति ॥११६।। ओष्ठयादुर् ।४।४।११७॥ धातोरोष्ठ्यात् परस्य ऋत: क्डित्युर् स्यात् । पू: , बुभूर्षति , वुवूर्षते ॥११७|| इसासः शासोऽङ्-व्यञ्जने।४।४।११८॥ शास्तेरंशस्याऽऽसोऽङि डिति व्यञ्जनादौ च परे इस् स्यात् । अशिषत् , शिष्टः । अब्यञ्जन इति किम् ? शासति ॥११८॥ कौ।४।४।११९॥ शास आस: को इस् स्यात् । मित्रशीः ॥११९।। आङः ।४।४।१२०॥ आङ: परस्य शास आसः कावेव इस् स्यात्। आशी: । कावित्येव - आशास्ते ॥१२०॥ य्वोः प्वय्व्यञ्जने लुक् ।४।४।१२१॥ पौ य्वर्जव्यञ्जनादौ च परे य्वोर्लुक् स्यात् । क्नोपयति , क्ष्मातम् , देदिव: , कण्डूः । स्वर्जनं किम् ? नूय्यते ॥१२१।। कृतः कीर्तिः ।४।४।१२२॥ कृतण: कीर्तिः स्यात् । कीर्त्तयति ।।१२२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy