SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २२३ - - हनृतः स्यस्य ।४॥४॥४९॥ हन्ते: ऋदन्ताच्च परस्य स्यस्याऽऽदिरिट् स्यात् । हनिष्यति , करिष्यति ।।४९।। कृत-चूत-नृत-च्छृद-तृदोऽसिचः सादेर्वा ।४।४।५०॥ एभ्य: परस्याऽसिच: सादेः स्ताद्यशित आदिरिट् वा स्यात् । कर्त्यति , कर्तिष्यति ; चिनृत्सति , चिचर्तिषति ; नय॑ति , नर्तिष्यति ; अच्छय॑त् , अच्छर्दिष्यत् ; तितृत्सति , तितर्दिषति । असिच इति किम् ? अकर्तीत् ॥५०॥ गमोऽनात्मने।४॥४॥५१॥ गमः परस्य स्ताद्यशित: सादेरादिरिट् स्यात् , न त्वात्मनेपदे । गमिष्यति । अधिजिगमिषिता शास्त्रस्य । अनात्मने इति किम् ? संगंसीष्ट ॥५१।। स्रोः ।४॥४॥५२॥ स्रो: परस्य स्ताद्यशितोऽनात्मनेपदे आदिरिट् स्यात् । प्रस्त्रविष्यति । अनात्मन इत्येव-प्रास्नोष्ट ॥५२॥ क्रमः।४।४।५३॥ क्रम: परस्य स्ताद्यशित आदिरिट् स्यात् , अनात्मनेपदे। क्रमिष्यति , प्रकमितुम् । अनात्मन इत्येव-प्रकंस्यते ।।५३।। तुः॥४॥४॥५४॥ अनात्मनेपदविषयात् क्रम: परस्य तु: स्ताद्यशित आदिरिट् स्यात् । क्रमिता । अनात्मन इत्येव-प्रक्रन्ता ।।५४।। न वृद्भ्यः ।४॥४॥५५॥ वृदादिपञ्चकात् परस्य स्ताद्यशित आदिरिट् न स्यात् , नचेदसावात्मनेपदनिमित्तम् । वय॑ति , विवृत्सति ; स्यन्त्स्यति , सिस्यन्त्सति ॥५५।। ___एकस्वरादनुस्वारेतः ।४।४॥५६॥ एकस्वरादनुस्वारेतो धातोर्विहितस्य स्ताद्यशित आदिरिट् न स्यात् । पाता । एकस्वरादिति किम् ? अवधीत् ।।५६।। ऋवर्ण-घ्यूगुंगः कितः ।४।४।५७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy