SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २२४ स्वोपज्ञलघुवृत्तिविभूषितं ऋवर्णान्ताद्धातो: श्रेरूण्र्णोश्च एकस्वराद् विहितस्य कित आदिरिट् न स्यात् । वृतः , तीर्खा , श्रित: , ऊर्तुत्वा । एकस्वरादित्येव-जागरितः । कित इति " किम् ? वरिता ।।५७|| उवर्णात् ।४।४।५८॥ उवर्णान्तादेकस्वराद् विहितस्य कित आदिरिट् न स्यात् । युत: , लूनः ।।५८। ग्रह-गुहश्च सनः ।४।४।५९॥ आभ्यामुवर्णान्ताच्च विहितस्य सन आदिरिट् न स्यात् । जिघृक्षति , जुघुक्षति , रुरूषति ।।५९|| स्वार्थे ।४।४।६०॥ स्वार्थार्थस्य सन आदिरिट न स्यात् । जुगुप्सते ॥६०|| डीय-श्व्यैदितः क्तयोः ।४।४।६१॥ डीयते: श्वेरैदिद्भ्यश्च धातुभ्यः परयो: क्त-क्तवत्वोरादिरिट् न स्यात् । डीन: , डीनवान् ; शूनः , शूनवान् ; त्रस्त: , त्रस्तवान् ।।६१।। वेटोऽपतः ।४।४।६२॥ अपतो विकल्पितेटो धातोरेकस्वरात् परयो: क्तयोरादिरिट् न स्यात् । रद्ध: , रद्धवान् । अपत इति किम् ? पतितः ॥६२।। सं-नि-वेरर्दः ।४।४।६३॥ एभ्य: पराद् अर्देः परयो: क्तयोरादिरिट् न स्यात् । समर्णः , समर्णवान् ; न्यर्णः , न्यर्णवान् ; व्यर्णः , व्यर्णवान् । संनिवेरिति किम् ? अर्दितः ॥६३।। अविदूरेऽभेः ।४।४।६४॥ अभे: पराद् अर्दैः परयोः क्तयोरविदूरेऽर्थे आदिरिट् न स्यात् । अभ्यर्णम् । अविदूर इति किम् ? अभ्यर्दितो दीन: शीतेन ॥६४॥ . वर्तेर्वृत्तं ग्रन्थे।४।४।६५॥ वृतेर्ण्यन्तात् क्ते वृत्तं ग्रन्थविषये निपात्यते । वृत्तो गुणश्छात्रेण । ग्रन्थ इति किम् ? वर्तितं कुङ्कुमम् ॥६५॥ धृष-शसः प्रगल्भे।४॥४॥६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy