________________
२२२
स्वोपज्ञलघुवृत्तिविभूषितं
क्षुध-वसस्तेषाम् ।४॥४॥४३॥ आभ्यां परेषां क्त-क्तवतु-क्त्वामादिरिट् स्यात् । क्षुधित: , क्षुधितवान् , क्षुधित्वा ; उषित: , उषितवान् , उषित्वा ।।४।।
लुभ्यञ्चेर्विमोहाचें ।४।४॥४४॥ आभ्यां यथासंख्यं विमोहन-पूजार्थाभ्यां परेषां क्त-क्तवतु-क्त्वामादिरिट् स्यात् । विलुभितः , विलुभितवान् , लुभित्वा ; अश्चित: अञ्चितवान् , अञ्चित्वा । विमोहार्च इति किम् ? लुब्धो जाल्म: , उदक्तं जलम् ।।४४।।
पूङ्-क्लिशिभ्यो नवा ।४॥४॥४५॥ पूङः क्लिशिभ्यां च परेषां क्त-क्तवतु-क्त्वामादिरिड् वा स्यात् । पूत: पूतवान् , पूत्वा ; पवित: , पवितवान् , पवित्वा । क्लिष्टः , क्लिष्टवान् , क्लिष्ट्वा ; क्लिशितः , क्लिशितवान् , क्लिशित्वा ॥४५।।।
सह-लुभेच्छ-रुष-रिषस्तादेः ।४।४।४६॥ एभ्य: परस्य स्ताद्यशितस्तादेरिट् वा स्यात् । सोढा , सहिता ; लोब्धा , लोभिता ; एष्टा , एषिता ; रोष्टा , रोषिता ; रेष्टुम् , रेषितुम् ।।४६।। इवृध-भ्रस्ज-दम्भ-श्रि-यूण्णु-भर-ज्ञपि-सनि-तनि-पति-वृद्-दरिद्रः सनः ।४॥४॥४७॥
इवन्ताद् ऋधादिभ्य ऋदन्तेभ्यो दरिद्रश्च परस्य सन आदिरिट् वा स्यात् । दुषति , दिदेविषति ; ईर्त्यति , अर्दिधिषति ; बिभक्षति , बिभर्जिषति ; धिप्सति , दिदम्भिषति ; शिश्रीषति , शिश्रयिषति ; युयूषति , यियविषति ; प्रोणुनूषति , प्रोणुनविषति ; बुभूर्षति , बिभरिषति ; ज्ञीप्सति , जिज्ञपयिषति ; सिषासति , सिसनिषति ; तितंसति , तितनिषति ; पित्सति , पिपतिषति ; प्रावुवूर्षति , प्राविवरिषति ; बुवूर्षते , विवरीषते ; तितीर्षति , तितरीषति ; दिदरिद्रासति दिदरिद्रिषति ॥४७||
ऋ-स्मि-पूङञ्जशौ-कृ-गृ-दृ-धृ-प्रच्छः ।।४।४८॥ एभ्य: परस्य सन आदिरिट् स्यात् । अरिरिषति , सिस्मयिषते , पिपविषते अञ्जिजिषति , अशिशिषते , चिकरीषति , जिगरीषति , आदिदरिषते , आदिधरिषते , पिपृच्छिषति ॥४८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org