SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धहेमचन्द्रशब्दानुशासनम् । वृतो नवाऽनाशीः- सिच्परस्मै च | ४|४|३५|| बृभ्यामृदन्तेभ्यश्च परस्येटो दीर्घो वा स्यात् न तु परोक्षा - ssशिषोः सिचि च परस्मैपदे । प्रावरीता, प्रावरिता; वरीता, वरिता; तितरीषति, तितरिषति । परोक्षादिवर्जनं किम् ? ववरिथ, तेरिथ प्रावरिषीष्ट, आस्तरिषीष्ट, प्रावारिषुः आस्तारिषुः ||३५|| इट् सिजाशिषोरात्मने |४|४|३६|| वृद्भयां परयोरात्मनेपदविषये सिजाशिषोरादिरिट् वा स्यात् । प्रावृत, प्रावरिष्ट ; अवृत, अवरीष्ट ; आस्तीष्ट, आस्तरिष्ट ; प्रावृषीष्ट, प्रावरिषीष्ट ; वृषीष्ट वरिषीष्ट ; आस्तीर्षीष्ट, आस्तरिषीष्ट । आत्मने इति किम् ? प्रावारीत् ||३६|| संयोगाद् ऋतः || ४|४|३७| " धातोः संयोगात् परो य ऋतू तदन्तात् परयोरात्मनेपदविषयसिजाशिषोरादिरिट् वा स्यात् । अस्मरिषाताम् अस्मृषाताम् ; स्मरिषीष्ट, स्मृषीष्ट । संयोगादिति किम् ? अकृत ||३७|| " " धूगौदितः |४|४|३८|| धूग औदितश्च परस्य स्ताद्यशित आदिरिट् वा स्यात् । धोता, रद्धा रधिता ||३८|| Jain Education International निष्कुषः || ४|४|३९|| निष्पूर्वात् कुषः परस्य स्ताद्यशित आदिरिट् वा स्यात् । निष्कोष्टा, निष्कोषिता ||३९|| २२१ क्तयोः ||४|४|४०|| निष्कुषः परयोः क्तयोरादिरिट् नित्यं स्यात् । निष्कुषितः, निष्कुषितवान् 118011 - व्रश्चः क्त्वः |४|४|१४१ ॥ आभ्यां परस्य क्त्व आदिरिट् स्यात् । जरीत्वा व्रश्चित्वा ॥ ४१ ॥ ऊदितो वा | ४|४|१२|| ऊदितः परस्य क्त्व आदिरिट् वा स्यात् । दान्त्वा दमित्वा ||४२ || १. निःपूर्वात् इति सर्वत्र हस्तलिखितादर्शेषु पाठः || ? धविता ; 2 For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy