________________
२२०
स्वोपज्ञलघुवृत्तिविभूषितं
णौ सन्-डे वा ।४।४।२७॥ सन्-ङपरे णौ इङो गा वा स्यात् । अधिजिगापयिषति , अध्यापिपयिषति 3; अध्यजीगपत् , अध्यापिपत् । णाविति किम् ? अधिजिगांसते । सन्ङ इति किम् ? अध्यापयति ॥२७||
वाऽद्यतनी-क्रियातिपत्त्योर्गीङ् ।४।४।२८॥ अनयोरिङो गीङ् वा स्यात् । अध्यगीष्ट , अध्यैष्ट ; अध्यगीष्यत , अध्यैष्यत
॥२८॥
अड् धातोरादिमुस्तन्यां चाऽमाङा ।४।४।२९॥ ह्यस्तन्यामद्यतनी-क्रियातिपत्त्योश्च विषये धातोरादिरट् स्यात् , न तु माङ्योगे । अयात् , अयासीत् , अयास्यत् । अमाङेति किम् ? मा स्म कार्षीत् । धातोरिति किम् ? प्रायाः ॥२९॥
एत्यस्तेर्वृद्धिः ।४।४।३०॥ इणिकोरस्तेश्चाऽऽदेमुस्तन्यां विषये वृद्धिः स्यात् , न तु माङा । आयन् , अध्यायन् , आस्ताम् । अमाडेत्येव-मा स्म ते यन् ॥३०॥
स्वरादेस्तासु ।४।४॥३१॥ स्वरादेर्धातोरादेरद्यतनी-क्रियातिपत्ति-ह्यस्तनीषु विषये वृद्धि: स्यात् , अमाङा । आटीत् , ऐषिष्यत् , औज्झत् । अमाडेत्येव-मा सोऽटीत् ॥३१||
स्तायशितोऽत्रोणादेरिट ।४।४।३२॥ धातो: परस्य सादेस्तादेश्वाऽशित आदिरिट् स्यात् , न तुत्रोणाद्योः । लविष्यति , लविता । स्तादीति किम् ? भूयात् । अशित इति किम् ? आस्से । अत्रोणादेरिति किम् ? शस्त्रम् , वत्सः , हस्तः ।।३२।।
तेर्ग्रहादिभ्यः ।४।४।३३॥ एभ्य एव परस्य स्ताद्यशित: तेरादिरिट् स्यात् । निगृहीतिः , अपस्निहिति: । ग्रहादिभ्य इति किम् ? शान्तिः ॥३३॥
- गृह्णोऽपरोक्षायां दीर्घः ।४।४।३४॥ ग्रहेर्यो विहित इट् तस्य दीर्घः स्यात् , न तु परोक्षायाम् । ग्रहीता । अपरोक्षायामिति किम् ? जगृहिव ।।३४।।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org