________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
२१९
एष्वदेर्घस्ल: स्यात्। जिघत्सति , अघसत् , घास:, प्रघस: , प्रादनम्=प्रघस: ||१७||
परोक्षायां नवा ।।४।१८॥ अदे: परोक्षायां घस्लर्वा स्यात् । जक्षुः , आदुः ॥१८||
वेर्वय् ।४।४।१९॥ वेग: परोक्षायां वय् वा स्यात् । ऊयुः , ववुः ।।१९।।
ऋः शृ-दृ-प्रः ।४।४॥२०॥ एषां परोक्षायाम् ऋर्वा स्यात् । विशश्रतुः ; विशशरतुः , विदद्रतुः , विददरतु: ; निपप्रतुः , निपपरतुः ॥२०॥
हनो वध आशिष्यो ।४।४।२२॥ आशीविषये हन्तेर्वधः स्यात् , न तु जिटि । वध्यात् । अञाविति किम् ? घानिषीष्ट ॥२१॥
अद्यतन्यां वा त्वात्मने ।४॥४॥२२॥ अद्यतन्यां विषये हनो वध: स्याद् आत्मनेपदे तु वा । अवधीत् ; आवधिष्ट , आहत ||२२||
इणिकोर्गा ॥४॥४॥२३॥ इणिकोरद्यतन्यां गा: स्यात् । अगात् , अध्यगात् ॥२३॥
णावज्ञाने गमुः ।४।४।२४॥ इणिकोरज्ञानार्थयोी गमु: स्यात् । गमयति , अधिगमयति गाम् । अज्ञान इति किम् ? अर्थान् प्रत्याययति ॥२४॥
सनीङश्च ।४।४॥२५॥ इङ इणिकोश्चाऽज्ञानार्थयो: सनि गमुः स्यात् । अधिजिगांसते , जिगमिषति ग्रामम् , मातुरधिजिगमिषति ॥२५॥
गा परोक्षायाम् ।४।४।२६॥ इङ: परोक्षाविषये गा: स्यात् । अधिजगे ।।२६।। १. “अच्, प्रात्तीति प्रघसः'' इति बृहद्वृत्तौ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org