SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २१८ स्वोपज्ञलघुवृत्तिविभूषितं अवदत्तम् ।।८।। स्वरादुपसर्गाद् दस्ति कित्यधः ।४।४।९॥ स्वरान्तादुपसर्गात् परस्य धावर्जस्य दासंज्ञस्य तादौ किति त्त् नित्यं स्यात् । प्रत्त्तः , परीत्रिमम् । उपसर्गादिति किम् ? दधि दत्तम् । स्वरादिति किम् ? निर्दत्तम् । द इति किम् ? प्रदाता व्रीहयः । तीति किम् ? प्रदाय । अध इति किम् ? निधीत: ।।९।। दत् ।४।४।१०॥ अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः , दत्तिः । अध इत्येव , धीतः ॥१०॥ दो-सो-मा-स्थ इः।४।४।११॥ ___ एषां तादौ किति इ: स्यात् । निर्दितः , सित्वा , मिति: , स्थितवान् ॥११॥ छा-शोर्वा ।४।४।१२॥ छा-शोस्तादौ किति इर्वा स्यात् । अवच्छितः , अवच्छात: ; निशितः , निशात: ॥१२॥ शो व्रते।४।४।१३॥ श्यते: क्ते व्रतविषये प्रयोगे नित्यम् इ: स्यात् । संशितं ब्रतम् , संशित: साधुः ।।१३।। हाको हिः क्त्वि ।४।४।१४॥ हाकस्तादौ किति क्त्वायां हि: स्यात् । हित्वा । क्त्वीति किम् ? हीन: । तीत्येव-प्रहाय ॥१४॥ धागः।४॥४॥१५॥ धागस्तादौ किति हि: स्यात् । विहित: , हित्वा ।।१५।। यपि चाऽदो जग्ध् ।४।४।१६॥ तादौ किति यपि चाऽदेर्जग्ध् स्यात् । जग्धिः , प्रजग्ध्य ।।१६।। घस्ल सनद्यतनी-घत्रचलि ।४।४।१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy