________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
२१७
[चतुर्थः पाद: ]
अस्ति-ब्रुवोर्भू-वचावशिति ।४।४।१॥ अस्ति-ब्रुवोर्यथासंख्यं भू-वचौ स्याताम् अशिति विषये । भव्यम् , अवोचत् । अशितीति किम् ? स्यात् , ब्रूते ।।१।।
___ अघञ्क्य बलच्यजेवीं ।४।४।२॥ अघञादावशिति विषये अजेर्वी स्यात् । प्रवेयम् । अघञ्क्यबलचीति किम् ? समाज: , समज्या , उदज: पशोः , अजः ।।२।।
त्रने वा ॥४॥४॥३॥ त्रनयोर्विषयभूतयोरजेर्वी वा स्यात् । प्रवेता , प्राजिता ; प्रवयणः , प्राजनो दण्ड: ।।३।।
चक्षो वाचि क्शांग्-ख्यांग्।४।४।४॥ चक्षो वागर्थस्याऽशिति विषये क्शांग्-ख्यांगौ स्याताम् । आक्शास्यति , आक्शास्यते ; आख्यास्यति , आख्यास्यते ; आंक्शेयम् , आख्येयम् । वाचीति किम् ? बोधे-विचक्षणः ||४||
नवा परोक्षायाम् ।४।४।५॥ चक्षो वाचि क्शांग्-ख्यांगौ परोक्षायां वा स्याताम् । आचक्शौ , आचख्यौ , आचचक्षे ।।५।।
भृज्जो भर्ख ।४।४६॥ भृज्जतेरशिति भ वा स्यात् । भर्टा , भ्रष्टा ।।६।।
प्राद् दागस्त्त आरम्भे क्ते ।४।४।७॥ आरम्भार्थस्य प्रपूर्वस्य दाग: क्ते परे त्त् वा स्यात् । प्रत्त्तः , प्रदत्त: । प्रादिति किम् ? परीत्तम् ॥७॥
नि-वि-स्वन्ववात् ।४।४८॥ एभ्य: परस्य दाग: क्ते त् वा स्यात् । नीत्त्तम् , निदत्तम् ; वीत्तम् , विदत्तम् ; सूत्तम् , सुदत्तम् ; अनूत्तम् , अनुदत्तम् ; अवत्त्तम् , १. आशेयम् J3 विना नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org