________________
२१६
स्वोपज्ञलघुवृत्तिविभूषितं
एष्वर्थेषु यथासंख्यमशनायादय: क्यन्नन्ता निपात्यन्ते । अशनायति , उदन्यति , धनायति । क्षुदादाविति किम् ? अशनीयति , उदकीयति , धनीयति दातुम् ॥११३।।
वृषाऽश्वान् मैथुने स्सोऽन्तः ।४।३।११४॥ आभ्यां मैथुनार्थाभ्यां क्यनि स्सन्त: स्यात् । वृषस्यति गौः , अश्वस्यति वडवा । मैथुने इति किम् ? वृषीयति , अश्वीयति , ब्राह्मणी ॥११४॥
- अस् च लौल्ये।४।३।११५॥ भोगेच्छातिरेको लौल्यम् , तत्र गम्ये क्यनि परे नाम्न: स् अस् चान्त: स्यात् । दधिस्यति , दध्यस्यति । लौल्य इति किम् ? क्षीरीयति दातुम् ।।११५।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] चतुर्थस्याध्यायस्य तृतीय: पाद: समाप्त: ।।४।३।।
कर्णं च सिन्धुराजं च , निर्जित्य युधि दुर्जयम् । श्रीभीमेनाधुना चक्रे , महाभारतमन्यथा ।।१५।।
१. समाप्तः पा१,४,५, J3 विना नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org