________________
२०६
स्वोपज्ञलघुवृत्तिविभूषितं
किम् ? प्रगुधितः । भावाऽरम्भ इति किम् ? रुचिता ।।२६।।
न-डीङ्-शीङ्-पूङ्-धृषि-क्ष्विदि-स्विदि-मिदः ।४।३॥२७॥ एभ्य: परौ सेटौ क्त-क्तवतू किद्वन्न स्याताम् । डयितः , डयितवान् ; शयित: , शयितवान् , पवितः , पवितवान् ; प्रधर्षितः , प्रधर्षितवान् ; प्रक्ष्वेदितः , प्रक्ष्वेदितवान् ; प्रस्वेदितः , प्रस्वेदितवान् ; प्रमेदितः , प्रमेदितवान् । सेटावित्येव-डीन: , डीनवान् ॥२७|| ।
मृषः क्षान्तौ ।४।३।२८॥ क्षमाऽर्थान्मृष: सेटौ क्त-क्तवतू किद्वन्न स्याताम् । मर्षित: , मर्षितवान् । क्षान्ताविति किम् ? अपमृषितं वाक्यम् ।।२८।।
क्त्वा ।४।३।२९॥ धातो: क्त्वा सेट् किद्वन्न स्यात् । देवित्वा । सेडित्येव-कृत्वा ।।२९।।
स्कन्द-स्यन्दः ।४॥३॥३०॥ आभ्यां क्त्वा किद्वन्न स्यात् । स्कन्त्वा , स्यन्त्वा ॥३०॥
क्षुध-क्लिश-कुष-गुध-मृद-वद-वसः ।४।३॥३१॥ एभ्यः क्त्वा सेट किद्वत् स्यात् । क्षुधित्वा , क्लिशित्वा , कुषित्वा , गुधित्वा , मृडित्वा , मृदित्वा , उदित्वा , उषित्वा ||३१||
रुद-विद-मुष-ग्रह-स्वप-प्रच्छः सन् च ।४।३॥३२॥ एभ्य: सन् क्त्वा च किद्वत् स्यात् । रुदित्वा , रुरुदिषति ; विदित्वा , विविदिषति ; मुषित्वा , मुमुषिषति ; गृहीत्वा , जिघृक्षति , सुप्त्वा , सुषुप्सति ; पृष्ट्वा , पिपृच्छिषति ॥३२॥
___ नामिनोऽनिट् ।४।३॥३३॥ नाम्यन्ताद्धातोरनिट् सन् किद्वत् स्यात् । चिचीषति । अनिडिति किम् ? शिशयिषते ॥३३॥
उपान्त्ये ।४॥३॥३४॥ नामिन्युपान्त्ये सति धातोः सन् अनिट् किद्वत् स्यात् । बिभित्सति ॥३४॥
सिजाशिषावात्मने ।४॥३॥३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org