________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
शिदवित् ।४।३॥२०॥ धातोर्विद्वर्जः शित् प्रत्ययो ङिद्वत् स्यात् । इत: , क्रीणाति । अविदिति किम् ? एति । शिदिति किम् ? चेषीष्ट ।।२०।।
इन्ध्यसंयोगात् परोक्षा किद्वत् ।४।३।२१॥ इन्धेरसंयोगान्ताच परा अवित्परोक्षा किद्वत् स्यात् । समीधे , निन्युः । इन्ध्यसंयोगादिति किम् ? सस्रंसे ।।२१।।
स्वञ्जनवा ।४।३।२२॥ स्वछुः परोक्षा वा किद्वत् स्यात् । सस्वजे , सस्वजे ॥२२।।
ज-नशो न्युपान्त्ये तादिः क्त्वा ।४।३॥२३॥ जन्तात् नशेश्च न्युपान्त्ये सति तादि: क्त्वा किद्वद्वा स्यात् । रक्त्वा , रङ्क्त्वा ; नष्ट्वा , नंष्ट्वा । नीति किम् ? भुक्त्वा । उपान्त्य इति किम् ? निक्त्वा । तादिरिति किम् ? विभज्य ॥२३॥
ऋत्-तृष-मृष-कृश-वञ्च-लुञ्च-थ-फः सेट् ।४।३।२४॥ न्युपान्त्ये सत्येभ्यो वा क्त्वा सेट किद्वत् स्यात् । ऋतित्वा , अर्त्तित्वा ; तृषित्वा , तर्षित्वा ; मृषित्वा , मर्षित्वा ; कृशित्वा , कर्शित्वा ; वचित्वा , वञ्चित्वा ; लुचित्वा , लुञ्चित्वा ; श्रथित्वा , श्रन्थित्वा ; गुफित्वा , गुम्फित्वा । न्युपान्त्य इत्येव-कोथित्वा , रेफित्वा । सेडिति किम् ? वक्त्वा ।।२४।।
__ वौ व्यञ्जनाऽऽदेः सन् चाऽय्-वः ।४।३।२५॥ ___ वौ उदित्युपान्त्ये सति व्यञ्जनादेर्धातो: पर: क्त्वा सन् च सेटौ किद्वद्वा स्यातां न तु य्वन्तात् । द्युतित्वा , द्योतित्वा ; दिद्युतिषते , दिद्योतिषते ; लिखित्वा , लेखित्वा ; लिलिखिषति , लिलेखिषति । वाविति किम् ? वर्त्तित्वा । व्यञ्जनादेरिति किम् । ओषित्वा । अय्व इति किम् ? देवित्वा ।।२५।।
उति शवऱ्याऽद्यः क्तौ भावाऽऽरम्भे ।४॥३॥२६॥ ___ उति उपान्त्ये सति शवहेभ्योऽदादिभ्यश्च परौ भावाऽऽरम्भयोः क्त-क्तवतू सेटौ वा किद्वत् स्याताम् । कुचितम् , कोचितमनेन ; प्रकुचितः , प्रकोचितः ; प्रकुचितवान् , प्रकोचितवान् । रुदितम् , रोदितमेभिः ; प्ररुदितः , प्ररोदितः ; प्ररुदितवान् , प्ररोदितवान् । उतीति किम् ? श्वितितमेभिः । शवर्हाट्य इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org