________________
२०४
स्वोपज्ञलघुवृत्तिविभूषितं
संयोगाद् य ऋत् तदन्तस्याऽर्तेश्च क्ये यङि आशीर्ये च गुण: स्यात् । स्मर्यते , स्वर्यते , अर्यते ; सास्वर्यते , अरार्यते ; स्मर्यात् , अर्यात् ।।१०।।
न वृद्धिश्चाऽविति क्ङिल्लोपे ।४॥३॥११॥ अविति प्रत्यये य: कितो डिन्तश्च लोपस्तस्मिन् सति गुणो वृद्धिश्च न स्यात् । चैच्यः ॥११॥
भवतेः सिज्लुपि ।४।३।१२॥ भुवः सिज्लुपि गुणो न स्यात् । अभूत् । सिज्लुपीति किम् ? व्यत्यभविष्ट
॥१२॥
सूतेः पञ्चम्याम् ।४॥३॥१३॥ सूते: पञ्चम्यां गुणो न स्यात् । सुवै ।।१३।।
युक्तोपान्त्यस्य शिति स्वरे ।४।३॥१४॥ द्वयुक्तस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति गुणो न स्यात् । नेनिजानि । उपान्त्यस्येति किम् ? जुहवानि । शितीति किम् ? निनेज ॥१४॥
ह्विणोरप्विति व्-यौ।४।३।१५॥ हो रिणश्च नामिन: स्वरादावपिति अविति शिति यथासंख्यं व्यौ स्याताम् । जुह्वति , यन्तु । अप्वितीति किम् ? अजुहवुः , अयानि ॥१५॥
इको वा ।४॥३॥१६॥ इक: स्वरादावविति शिति य् वा स्यात् । अधियन्ति , अधीयन्ति ।।१६।।
कुटादेर्डिद्वदणित् ।४।३।१७॥ कुटादेः परो ञ्णिद्वर्जप्रत्ययो ङिद्वत् स्यात् । कुटिता , गुता । अञ्णिदिति किम् ? उत्कोट: , उच्चुकोट ।।१७||
विजेरिट ।४॥३॥१८॥ विजेरिट ङिद्वत् स्यात् । उद्विजिता । इडिति किम् ? उद्वेजनम् ।।१८॥
___वोर्णोः ।४।३॥१९॥ ऊोरिड् वा डिद्वत् स्यात् । प्रोण्णुविता , प्रोणविता ॥१९॥ १. स्वर्यते J3 मध्ये नास्ति ।। २. सास्वर्यते सास्मर्यते अरार्यते J3 ।। ३. चेच्यः मरीमृजः पा१ मध्ये एव ।। ४. ह्विणो मिनः J3 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org