SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २०३ [तृतीय: पाद: ] नामिनो गुणोऽक्ङिति ।४।३॥१॥ नाम्यन्तस्य धातोः क्ङिवर्जे प्रत्यये गुण: स्यात् । चेता । अक्ङितीति किम् ? युतः ॥१॥ उ-श्नोः ।४।३।२॥ धातोरुश्नो: प्रत्यययोरक्ङिति गुण: स्यात् । तनोति , सुनोति ।।२।। पुस्-पौ ।४।३।३॥ नाम्यन्तस्य धातो: पुसि पौ च गुण: स्यात् । ऐयरु: , अर्पयति ॥३॥ लघोरुपान्त्यस्य ।४।३॥४॥ धातोरुपान्त्यस्य नामिनो लघोरक्ङिति गुण: स्यात् । भेत्ता । लघोरिति किम् ? ईहते । उपान्त्यस्येति किम् ? भिनत्ति ॥४॥ मिदः श्ये।४।३॥५॥ मिदेरुपान्त्यस्य श्ये गुण: स्यात् । मेद्यति ।।५।। जागुः किति ।४।३।६॥ जागु: किति गुण: स्यात् । जागरितः ॥६।। ऋवर्ण-दृशोऽङि४॥३॥७॥ ऋवर्णान्तानां दृशेश्वाऽङि परे गुण: स्यात् । असरत् , अजरत् , अदर्शत् |७|| स्कृच्छ्रुतोऽकि परोक्षायाम् ।४।३।८॥ स्कृच्छो:ऋदन्तानां च नामिन: परोक्षायां गुण: स्यात् , न तु कोपलक्षितायां क्वसु-काने । सञ्चस्करुः , आनछुः , तेरुः । अकीति किम् ? सञ्चस्कृवान् ।।८।। संयोगादर्तेः ।४॥३॥९॥ संयोगात् परो य ऋत् , तदन्तस्याऽर्तेश्च परोक्षायामकि गुण: स्यात् । सस्मरु: , आरुः । संयोगादिति किम् ? चक्रुः ।।९।। क्य-यङाऽऽशीर्ये ।४।३।१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy