SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २०२ स्वोपज्ञलघुवृत्तिविभूषितं वा स्युः । वेद , विदतु: , विदुः ; वेत्थ , विदथुः , विद ; वेद , विद्व , विद्म । पक्षे -वेत्तीत्यादि ।।११७॥ ब्रूगः पञ्चानां पञ्चाऽऽहश्च ।४।२।११८॥ ब्रूग: परेषां तिवादीनां पञ्चानां यथासंख्यं पञ्च णवादयो वा स्युः , तद्योगे ब्रूग आह् च । आह , आहतुः , आहुः , आत्थ , आहथुः । पक्षे -ब्रवीतीत्यादि ।।११८|| __ आशिषि तु-ह्योस्तातङ् ।४।२।११९॥ आशीरर्थयोस्तुह्योस्तातङ् वा स्यात् । जीवतात् , जीवतु ; जीवतात् , जीव त्वम् । आशिषीति किम् ? जीवतु ।।११९।। आतो णव औः ।४।२।१२०॥ आत: परस्य णव औः स्यात् । पपौ ।।१२०।। आतामाते-आथामाथे आदिः ।४।२।१२१॥ आत् परेषामेषाम् आत इ: स्यात् । पचेताम् , पचेते , पचेथाम् , पचेथे । आदिति किम् ? मिमाताम् ।।१२१॥ __यः सप्तम्याः ।४।२।१२२॥ आत् परस्य सप्तम्या याशब्दस्ये: स्यात् । पचेत् , पचेः ।।१२२।। याम्-युसोरियमियुसौ ।४।२।१२३॥ आत् परयोर्याम्-युसोर्यथासंख्यमियमियुसौ स्याताम् । पचेयम् , पचेयु: ||१२३।। [इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] चतुर्थस्याध्यायस्य द्वितीयः पादः समाप्तः ।।४।२।। श्रीभीमपृतनोत्खातरजोभिर्वैरिभूभुजाम् । अहो! चित्रमवर्धन्त ललाटे जलबिन्दवः ।।१४।। १. J3 मध्ये इतः परं 'नन्दतात् नन्द त्वम्' इत्यधिकः पाठः ।। २. समाप्तः पा२,३,४,५, J2,3, P3 विना नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy