________________
अश्रीसिद्धहेमचन्द्रशेखानुशासनम् । किशो -2000 , जिघ्र , धम , तिष्ठ , मन , प्रयच्छ , पश्य , ऋच्छ , शीयते , सीद ।।१०८||
क्रमो दीर्घः परस्मै।४।२।१०९॥ क्रमे: परस्मैपदनिमित्ते शिति दीर्घ: स्यात् , अत्यादौ । क्राम , क्राम्यति । परस्मैपद इति किम् ? आक्रमते सूर्यः ॥१०९।।
ष्ठिवू-क्लम्वाऽऽचमः ।४।२।११०॥ एषां शित्यत्यादौ दीर्घः स्यात् । ष्ठीव , क्लाम , आचाम । आङिति किम् ? चम ॥११०॥
शम्सप्तकस्य श्ये।४।२।१११॥ शमादीनां सप्तानां श्ये दीर्घ: स्यात् । शाम्य , दाम्य , ताम्य , श्राम्य , भ्राम्य , क्षाम्य , माद्य । श्ये इति किम् ? शंशन्ति ॥१११।।
ष्ठिव्-सिवोऽनटि वा ।४।२।११२॥ ष्ठिव्-सिवोरनटि दीर्घो वा स्यात् । निष्ठीवनम् , निष्ठेवनम् ; सीवनम् , सेवनम् ।।११२।।
म-व्यस्याः ।४।२।११३॥ धातोर्विहिते मादौ वादौ चाऽत आ दीर्घः स्यात् । पचामि , पचावः ।।११३॥
अनतोऽन्तोऽदात्मने।४।२।११४॥ अनत: परस्याऽऽत्मनेपदस्थस्याऽन्तोऽत् स्यात् । चिन्वते । आत्मनेपद इति किम् ? चिन्वन्ति । अनत इति किम् ? पचन्ते ॥११४॥
शीङो रत् ।४।२।११५॥ शीङ: परस्याऽऽत्मनेपदस्थस्याऽन्तो रत् स्यात् । शेरते ।।११५।।
वेत्तेर्नवा ।४।२।११६॥ वेत्तेः परस्यात्मनेपदस्थस्याऽन्तो रद् वा स्यात् । संविद्रते , संविदते ॥११६।।
तिवां णवः परस्मै ।४।२।११७॥ वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव णवादयो नव यथासंख्यं १. मन यच्छ J3 ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org