________________
स्वोपज्ञलघुवृत्तिविभूषितं
भियो व्यञ्जनादौ शित्यविति इर्वा स्यात् । बिभित: , बिभीत: ।।९९।।
हाकः ।४।२।१००॥ हाको व्यञ्जनादौ शित्यविति आत इर्वा स्यात् । जहित: , जहीतः ॥१००॥
आ च हौ ।४।२।१०१॥ हाको हौ आत् इश्च वा स्यात् । जहाहि , जहिहि , जहीहि ॥१०१||
यि लुक् ।४।२।१०२॥ यादौ शिति हाक आ लुक् स्यात् । जह्यात् ।।१०२।।।
ओतः श्ये।४।२।१०३॥ धातोरोत: श्ये लुक् स्यात् । अवद्यति । श्य इति किम् ? गवति ॥१०३।।
जा ज्ञा-जनोऽत्यादौ ।४।२।१०४॥ ज्ञा-जनो: शिति जा: स्यात् , न त्वनन्तरे तिवादौ । जानाति , जायते । अत्यादाविति किम् ? जाज्ञाति । जञ्जन्ति ॥१०४||
प्वादेर्हस्वः ।४।२।१०५॥ प्वादे: शिति अत्यादौ ह्रस्व: स्यात् । पुनाति , लुनाति । प्वादेरिति किम् ? वीणाति ॥१०५॥
गमिषद्यमश्छः ।४।२।१०६॥ एषां शित्यत्यादौ छ: स्यात् । गच्छति , इच्छति , आयच्छते । अत्यादाविति किम् ? जङ्गन्ति ।।१०६।।
वेगे सर्तेर्धात् ।४।२।१०७॥ सर्वेगे गम्ये शिति धाव् स्यात् , अत्यादौ । धावति । वेग इति किम् ? धर्ममनुसरति ॥१०७॥
श्रौति-कृवु-धिवु-पा-घ्रा-ध्मा-स्था-ना-दाम्-दृश्यर्त्ति-शद-सदः श-कृ-धि-पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्यर्छ-शीय-सीदम् ।४।२।१०८॥
एषां शित्यत्यादौ यथासंख्यम् श्रादय: स्युः । शृणु , कृणु , धिनु , पिब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org