________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१९९
द्विष आदन्ताच्च परस्य शितोऽवितोऽन: स्थाने वा पुस् स्यात् । अद्विषुः , अद्विषन् ; अयु: , अयान् ।।११।।
सिज्-विदोऽभुवः ।४।२।९२॥ सिच्प्रत्ययाद् विदश्च धातो: परस्य अनः पुस् स्यात् , न चेद् भुव: पर: सिच् स्यात् । अकार्षुः , अविदुः । अभुव इति किम् ? अभूवन् ॥९२।।
द्वयुक्त-जक्षपञ्चतः ।४।२।९३॥ कृतद्वित्वाद् जक्षपञ्चकाच्च परस्य शितोऽवितोऽन: पुस् स्यात् । अजुहवुः , अजक्षुः , अदरिद्रुः , अजागरु: , अचकासुः , अशासुः ।।१३।।
अन्तो नो लुक् ।४।२।९४॥ द्वयुक्त-जक्षपञ्चकात् परस्य शितोऽवितोऽन्तो नो लुक् स्यात् । जुह्वति , जुह्वत् ; जक्षति , जक्षत् ; दरिद्रति , दरिद्रत् ।।९४।।
शौ वा ।४।२।९५॥ द्वयुक्त-जक्षपञ्चकात् परस्याऽन्तो न: शिविषये लुग् वा स्यात् । ददति ददन्ति कुलानि ; जक्षति , जक्षन्ति ; दरिद्रति , दरिद्रन्ति ।।९५||
इनश्चाऽऽतः ।४।२।९६॥ द्वयुक्त-जक्षपञ्चतः श्नश्च शित्यवित्यातो लुक् स्यात् । मिमते , दरिद्रति , क्रीणन्ति । अवितीत्येव-अजहाम् , अक्रीणाम् ।।९६।।
- एषामी व्यञ्जनेऽदः ।४।२।९७॥ द्वयुक्त-जक्षपञ्चच्छ्नामात: शित्यविति व्यञ्जनादावी स्यात् , न तु दासंज्ञस्य । मिमीते , लुनीतः । व्यञ्जन इति किम् ? मिमते । अद इति किम् ? दत्त: , धत्तः ।।९७||
इर्दरिद्रः ।४।२।९८॥ दरिद्रो व्यञ्जनादौ शित्यवित्यात इ: स्यात् । दरिद्रितः । व्यञ्जन इत्येव-दरिद्रति ।।९८||
भियो नवा ।४।२।९९॥ १. जुह्वतु पार पासं१ P1 J3सं ।। २. जक्षतु पा२ पासं१ J3सं ॥ ३. दरिद्रतु पा२ पा१
J3सं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org