________________
स्वोपज्ञलघुवृत्तिविभूषितं
"
विन्दतेः परस्य क्तस्य नत्वाभावो निपात्यते धन-प्रतीतयोः पर्यायश्चेत् । वित्तं धनम् वित्तः प्रतीतः । धन- प्रतीतमिति किम् ? विन्नः ||८२||
,
हु-धुटो हेर्धिः || ४|२|८३ ॥
१९८
9
होडन्ताच्च परस्य हेर्धिः स्यात् । जुहुधि विद्धि ||८३ || शासस्-हनः शाध्येधि-जहि |४ |२|८४ ॥
"
शास्-अस्-हनां ह्यन्तानां यथासंख्यं शाध्येधि- जहयः स्युः । शाधि एधि जहि ॥ ८४ ॥
"
अतः प्रत्ययालुक् ।४।२२८५ ॥
धातोः परो योऽदन्तः प्रत्ययस्ततः परस्य हेर्लुक् स्यात् । दीव्य । अत इति किम् ? राप्नुहि । प्रत्ययादिति किम् ? पापहि ॥ ८५ ॥
असंयोगादोः ।४।२।८६॥
असंयोगात् परो य उस्तदन्तात् प्रत्ययात् परस्य हेर्लुक् स्यात् । सुनु । असंयोगादिति किम् ? अक्ष्णुहि । ओरिति किम् ? क्रीणीहि ॥ ८६ ॥ विति वा | ४|२|८७॥
असंयोगात् परो य उस्तदन्तस्य प्रत्ययस्य लुग् वा स्यात्, बमादौ अविति परे । सुन्वः, सुनुवः; सुन्मः, सुनुमः । अवितीति किम् ? सुनोमि । असंयोगादित्येव-तक्ष्णुवः ||८७ ||
कृगो यि च |४|२|८८ ||
कृगः परस्योतो यादौ वमि चाविति लुक् स्यात् । कुर्युः कुर्वः, कुर्मः
112611
116811
अतः शित्युत् |४|२|८९ ॥
शित्यविति य उस्तन्निमित्तस्य कृगोऽस्य उः स्यात् । कुरु । अवितीत्येव - करोति
Jain Education International
,
श्ना- स्त्योर्लुक् |४| २|९०॥
श्नस्य अस्तेश्वाऽस्य शित्यविति लुक् स्यात् । रुन्धः, स्तः । अत इत्येव-आस्ताम्
118011
वा द्विषतोऽनः पुस् | ४|२|९१ ॥
For Private & Personal Use Only
www.jainelibrary.org