________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
घ्यणोऽर्थी भावकर्मणी , ततोऽन्यस्मिन्नर्थे क्तयोस्त: क्षे: परस्य न स्यात् , तद्योगे क्षेः क्षीश्च । क्षीण: , क्षीणवान् मैत्र: । अध्यार्थे इति किम् ? क्षितमस्य
॥७४॥
वाऽऽक्रोश-दैन्ये ।४।२।७५॥ आक्रोशे दैन्ये च गम्ये क्षे: परस्याऽध्यार्थे क्तयोस्तो न् वा स्यात् , तद्योगे क्षेः क्षीश्च । क्षीणाऽऽयु: क्षिताऽऽयुर्जाल्म: । क्षीणक: , क्षितकस्तपस्वी ॥७५||
क्र-ही-घ्रा-ध्रा-त्रोन्द-नुद-विन्तेर्वा ।४।२।७६॥ एभ्य: परस्य क्तयोस्तो न् वा स्यात् । ऋणम् , ऋतम् ; ह्रीणः , ह्रीणवान् , ह्रीत: ; ह्रीतवान् ; घ्राण: , घ्रात: ; ध्राण: , ध्रात: ; त्राण: , त्रात: ; समुन्नः , समुत्तः ; नुन्नः , नुत्तः ; विन्नः , वित्तः ॥७६।।
द-गोरूच ।४।२।७७॥ दु-गुभ्यां परस्य क्तयोस्तो न् स्यात् , तद्योगे दुग्वोरूश्च । दून: , दूनवान् ; गूनः , गूनवान् ।।७७||
:-शुषि-पचो म-क-वम् ।४।२।७८॥ एभ्य: परस्य क्तयोस्तो यथासङ्ख्यं म-क-वाः स्युः । क्षाम: , क्षामवान् ; शुष्कः , शुष्कवान् ; पक्कः , पक्ववान् ॥७८||
निर्वाणमवाते ।४२।७९॥ अवाते कर्तरि निरपूर्वाद् वाते: परस्य क्ततो न् निपात्यते । निर्वाणो मुनि: । अवात इति किम् ? निर्वातो वात: ॥७९।। अनुपसर्गाः क्षीबोल्लाघ-कृश-परिकृश-फुल्लोत्फुल्ल-संफुल्लाः ।४।२।८०॥
अनुपसर्गाः क्तान्ता एते निपात्यन्ते । क्षीबः , उल्लाघः , कृशः , परिकृश: , फुल्लः , उत्फुल्लः , संफुल्लः । अनुपसर्गा इति किम् ? प्रक्षीबितः ।।८०।।
भित्तं शकलम् ।४।२।८१॥ भिदेः परस्य तस्य नत्वाभावो निपात्यते , शकलपर्यायश्चेत् । भित्तं शकलमित्यर्थः । शकलमिति किम् ? भिन्न भित्तम् ।।८१।।
वित्तं धन-प्रतीतम् ।४।२।८२॥ १. क्षेः पासंर विना नास्ति ।। २. रूच्च पा२,५ । रूत् पामू० १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org