________________
१९६
स्वोपज्ञलघुवृत्तिविभूषितं
ह्लादेः क्त-क्तवतो: क्तौ च हद् स्यात् । लनः , लनवान् , लत्तिः ॥६७||
ऋ-ल्वादेरेषां तो नोऽप्रः ।४।२।६८॥ __ पृवर्जाद् ऋदन्ताद् ल्वादिभ्यश्च परेषां क्ति-क्त-क्तवतूनां तो नः स्यात् । तीर्णिः तीर्णः , तीर्णवान् ; लूनिः , लून: , लूनवान् ; धूनि: , धूनः , धूनवान् । अप्र इति किम् ? पूर्तिः , पूर्तः , पूर्त्तवान् ।।६८।।।
रदादमूर्च्छ-मदः क्तयोर्दस्य च ।४।२।६९॥ मूर्छि-मंदिवर्जाद् रदन्तात् परस्य क्तयोस्त: तद्योगे धातुदश्च न् स्यात् । पूर्ण: ; पूर्णवान् ; भिन्नः , भिन्नवान् । अमूर्छमद इति किम् ? मूर्तः , मत्तः । रंदात्तस्येति किम् ? चरितम् , मुदितम् ।।६९||
सूयत्यायोदितः ।४।२।७०॥ सूयत्यादिभ्यो नवभ्य ओदिद्भ्यश्च परस्य क्तयोस्तो न् स्यात् । सूनः , सूनवान् ; दून: , दूनवान् ; लग्न: , लग्नवान् ॥७०।।
व्यञ्जनान्तस्थाऽऽतोख्या-ध्यः ।४।२।७१॥ ख्या-ध्यावर्जस्य धातोर्यद् व्यञ्जनं तस्मात् परा याऽन्तस्था , तस्याः परो य आः , तस्मात् परस्य क्तयोस्तो न् स्यात् । स्त्यानः , स्त्यानवान् । व्यञ्जनेति किम् ? यातः । अन्तस्थेति किम् ? सातः । आत इति किम् ? च्युतः । धानोर्व्यञ्जनेति किम् ? निर्यात: । अख्याध्य इति किम् ? ख्यातः , ध्यात: । आत: परस्येति किम् ? दरिद्रितः ॥७॥
पू-दिव्यञ्चे शा-ऽद्यूता-ऽनपादाने ।४।२।७२॥ एभ्यो यथासङ्ख्यं नाशाद्यर्थेभ्य: परस्य क्तयोस्तो न् स्यात् । पूना यवा: , आद्यूनः , समक्नौ पक्षौ । नाशा-ऽद्यूता-ऽनपादान इति किम् ? पूतम् , द्यूतम् , उदक्तं जलम् ।।७२।।
सेासे कर्मकर्तरि ।४।२।७३॥ से: परस्य क्तयोस्तो ग्रासे कर्मकर्तरि न: स्यात् । सिनो ग्रासः स्वयमेव । कर्मकर्त्तरीति किम् ? सितो ग्रासो मैत्रेण ॥७३।।
क्षेः क्षी चाऽध्यार्थे ।४।२।७४॥ १. मद पा३ पामू.२ पामू.४ ।।२ रदन्तात् P2 पार, ५, पामू.४ ।।३ रदांत पा१ J. ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org