SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १९५ वा मः ।४।२।५७॥ यम्यादीनां मन्तानां यपि लुग् वा स्यात् । प्रयत्य , प्रयम्य ; विरत्य , विरम्य ; प्रणत्य , प्रणम्य ; आगत्य , आगम्य ।।५७।। गमां कौ।४।२।५८॥ एषां गमादीनां यथादर्शनं क्वौ क्ङिति लुक् स्यात् । जनगत् , संयत् , परीतत् , सुमत् , सुवत् ॥५८॥ न तिकि दीर्घश्च ।४।२।५९॥ ___ एषां तिकि लुग दीर्घश्च न स्यात् । यन्ति: , रन्ति: , नन्तिः , गन्ति: , हन्तिः , मन्ति: , वन्तिः , तन्तिः ।।५९|| आः खनि-सनि-जनः ।४।२।६०॥ एषां धुडादौ क्ङिति आ: स्यात् । खात: , सात: , जातः , जाति: । क्डितीत्येव-चङ्खन्ति । धुटीत्येव-जनित्वा ॥६०॥ सनि ।४।६१॥ एषां धुडादौ सनि आ: स्यात् । सिषासति । धुटीत्येव-सिसनिषति ॥६१।। - ये नवा ।४।२।६२॥ एषां ये डिति आ वा स्यात् । खायते , खन्यते ; चाखायते , चङ्खन्यते ; सायते , सन्यते ; प्रजाय , प्रजन्य । क्डितीत्येव-सान्यम् ।।६२।। तनः क्ये ।४।२।६३॥ तन: क्ये आ वा स्यात् । तायते , तन्यते ॥६३।। तौ सनस्तिकि ।४।२।६४॥ सनस्तिकि तौ लुगातौ वा स्याताम् । सतिः , साति: , सन्तिः ॥६४|| वन्याङ् पञ्चमस्य ।४।२।६५॥ पञ्चमस्य बनि आङ् स्यात् । विजावा , घ्यावा ॥६५|| अपाच्चायश्चिः क्तौ ।४।२।६६॥ अपपूर्वस्य चायते: क्तौ चि: स्यात् । अपचितिः ॥६६।। ह्लादो ह्रद् क्तयोश्च ।४।२।६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy