________________
स्वोपज्ञलघुवृत्तिविभूषितं
भञ्जनौ वा ।४।२।४८॥ भञ्जरुपान्त्यनो ौ लुग् वा स्यात् । अभाजि , अभञ्जि ।।४८।।
दंश-सञ्जः शवि ।४।२।४९॥ अनयोरुपान्त्यनः शवि लुक् स्यात् । दशति , सजति ॥४९।।
अकट-घिनोश्च रञ्जः ।४।२।५०॥ रञ्जेरकटि घिनणि शवि चोपान्त्यनो लुक् स्यात् । रजक: , रागी , रजति
॥५०॥
णौ मृगरमणे ।४।२।५१॥ र रुपान्त्यनो णौ मृगाणां रमणेऽर्थे लुक् स्यात् । रजयति मृगं व्याधः । मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् ।।५१||
घञि भाव-करणे।४।२॥५२॥ रञ्जेरुपान्त्यनो भावकरणार्थे घञि लुक् स्यात् । राग: । भाव-करण इति किम् ? आधारे -रङ्गः ॥५२।।
स्यदो जवे ।४।२।५३॥ स्यन्देर्पनि नलुग-वृद्ध्यभावौ निपात्येते वेगेऽर्थे । गोस्यदः । जव इति किम् ? घृतस्यन्दः ॥५३॥
दशना-ऽवोदैधौद्म-प्रश्रय-हिमश्रथम् ।४।२।५४॥ __ एते नलुगादौ कृते निपात्यन्ते । दशनम् , अवोद: , एध: , ओञ , प्रश्रथ: , हिमश्रथः ॥५४॥ यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्ङिति।४।२॥५५॥ ___ एषां तनादीनां च धुडादौ क्ङिति लुक् स्यात् । यतः , रत्वा , नति: , गत: , हत: , मतः , वति: , ततः , क्षत: । धुटीति किम् ? यम्यते । क्डितीति किम् ? यन्ता ।।५५||
यपि ।४२॥५६॥ यम्यादीनां यपि लुक् स्यात् । प्रहत्य , प्रमत्य , प्रवत्य , प्रतत्य , प्रसत्य ॥५६॥ १. ओद्मः P3मू०, पा३, पासं४ ।।
प्रश्रयः मि-नमि-गमि-हाटी विकति लुक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org