________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
ऊद् दुषो णौ।४।२।४०॥ दुषेरुपान्त्यस्य णौ ऊत् स्यात् । दूषयति ॥४०॥
चित्ते वा ।४।२।४१॥ चित्तकर्तृकस्य दुषेरुपान्त्यस्य णौ परे ऊद् वा स्यात् । मनो दूषयति , मनो दोषयति मैत्रः ॥४१||
गोहः स्वरे ।४।२।४२॥ कृतगुणस्य गुहे: स्वरादावुपान्त्यस्योत् स्यात् । निगृहति । गोह इति किम् ? निजुगुहुः ।।४२॥
भुवो वः परोक्षा-ऽद्यतन्योः ।४।२।४३॥ भुवो वन्तस्योपान्त्यस्य परोक्षा-ऽद्यतन्योरूत् स्यात् । बभूव , अभूवम् । व इति किम् ? बभूवान् , अभूत् ।।४३।।
गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक् ।४।२।४४॥ एषामुपान्त्यस्याङ्वर्जे स्वरादौ विङति परे लुक् स्यात् । जग्मुः , जप्नुः , जज्ञे , चख्नुः , जक्षुः । स्वर इति किम् ? गम्यते । अनङीति किम् ? अगमत् । डिति किम् ? गमनम् ॥४४॥
नो व्यञ्जनस्याऽनुदितः ।४।२॥४५॥ व्यञ्जनान्तस्याऽनुदितो धातोरुपान्त्यस्य न: क्डिति परे लुक् स्यात् । स्रस्त: , सनीस्रस्यते । व्यञ्जनस्येति किम् ? नीयते । अनुदित इति किम् ? नानन्द्यते
अञ्चोऽनायाम् ।४।२।४६॥ अनर्चार्थस्यैवाञ्चेरुपान्त्यनो लुक् स्यात् । उदक्तमुदकं कूपात् । अनायामिति किम् ? अश्चिता गुरवः ।४६।।
लङ्गि-कम्प्योरुपतापा-ऽङ्गविकृत्योः ।४।२।४७॥ अनयोरुपान्त्यनो यथासङ्ख्यमुपतापेऽङ्गविकारे चार्थे क्ङिति परे लुक् स्यात् । विलगित: , विकपितः । उपतापाङ्गविकृत्योरिति किम् ? विलङ्गित: , विकम्पितः ॥४७॥ १. अभूवन् पार ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org