SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं , प्रतापयति ,प्रवनयति , प्रवमयति , प्रणमयति ॥३२॥ छदेरिस्-मन्-बट-क्कौ ।४।२।३३॥ छदेरिस्-मन्-बट्-किप्परे णौ ह्रस्व: स्यात् । छदिः , छद्म , छत्री , उपच्छत् ॥३३॥ एकोपसर्गस्य च घे।४।२॥३४॥ एकोपसर्गस्यानुपसर्गस्य च छदेर्घपरे णौ ह्रस्व: स्यात् । प्रच्छदः , छद: । एकोपसर्गस्य चेति किम् ? समुपच्छादः ॥३४।। उपान्त्यस्याऽसमानलोपि-शास्वृदितो उ ।४।२।३५॥ समानलोपि-शास्वृदिद्वर्जस्य धातोरुपान्त्यस्य ङपरे णौ ह्रस्व: स्यात् । अपीपचत् , मा भवान् अटिटत्। असमानलोपि-शास्वृदित इति किम् ? अत्यरराजत् , अशशासत् , मा भवान् ओणिणत् ।।३।। भ्राज-भास-भाष-दीप-पीड-जीव-मील-कण-रण-वण-भण-श्रण-ह्वे हेठ-लुट-लुप-लपां नवा ।४।२।३६॥ एषां ङपरे णावुपान्त्यस्य ह्रस्वो वा स्यात् । अबिभ्रजत् , अबभ्राजत् ; अबीभसत् , अबभासत् ; अबीभषत् , अबभाषत् ; अदीदिपत् , अदिदीपत् ; अपीपिडत् , अपिपीडत् ; अजीजिवत् , अजिजीवत् ; अमीमिलत् , अमिमीलत् ; अचीकणत् , अचकाणत् ; अरिरणत् , अरराणत् ; अवीवणत् , अववाणत् ; अबीभणत् , अबभाणत् ; अशिश्रणत् , अशश्राणत् ; अजूहवत् , अजुहावत् ; अजीहिठत् , अजिहेठत् ; अलूलुटत् , अलुलोटत् ; अलूलुपत् , अलुलोपत् ; अलीलपत् , अललापत् ।।३६।। ऋवर्णस्य ।४।२॥३७॥ उपान्त्यस्य ऋवर्णस्य ङपरे णौ वा ऋ: स्यात् । अवीवृतत् , अववर्त्तत् ; अचीकृतत् , अचिकीर्त्तत् ।।३७|| जिघ्रतेरिः ।४।२।३८॥ घ्र उपान्त्यस्य ङपरे णौ इर्वा स्यात् । अजिघ्रिपत् , अजिघ्रपत् ॥३८|| तिष्ठतेः ।४।२।३९॥ स्थ उपान्त्यस्य ङपरे णौ इ: स्यात् । अतिष्ठिपत् ।।३९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy