________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
२०७
नामिन्युपान्त्ये सति धातोरात्मनेपदविषयावनिटौ सिजाशिषौ किद्वत् स्याताम् । अभित्त , भित्सीष्ट । आत्मने इति किम् ? अस्राक्षीत् ।।३५।।
ऋवर्णात् ।४॥३॥३६॥ ऋवर्णान्ताद्धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वत् स्याताम् । अकृत , कृषीष्ट ; अतीष्ट , तीर्षीष्ट ॥३६॥
गमो वा ।४॥३॥३७॥ गमेरात्मनेपदविषयौ सिजाशिषौ किद्वद्वा स्याताम् । समगत , समगस्त ; संगसीष्ट , संगंसीष्ट ।।३७||
हनः सिच् ।४।३।३८॥ हनेरात्मनेपदविषय: सिच् किद्वत् स्यात् । आहत ॥३८||
यमः सूचने।४।३॥३९॥ सूचनार्थाद् यमेरात्मनेपदविषय: सिच् किद्वत् स्यात् । उदायत । सूचन इति किम् ? आयस्त रज्जुम् ।।३९।।
वा स्वीकृतौ ।४॥३॥४०॥ स्वीकारार्थाद् यमेरात्मनेपदविषय: सिच् किद्वद्वा स्यात् । उपायत , उपायंस्त अस्त्राणि । स्वीकृताविति किम् ? आयंस्त पाणिम् ॥४०॥
इश्च स्था-दः ।४।३।४१॥ स्थो दासंज्ञाच्चाऽऽत्मनेपदविषय: सिच् किद्वत् स्यात् , तद्योगे स्थादोरिश्च । उपास्थित , आदित , व्यधित ।।४१||
मृजोऽस्य वृद्धिः ।४॥३॥४२॥ मृजेर्गुणे सति अस्य वृद्धि: स्यात् । मार्टि । अत इति किम् ? मृष्टः ।।४२।।
ऋतः स्वरे वा ।४।३॥४३॥ मृजे: ऋत: स्वरादौ प्रत्यये वृद्धिर्वा स्यात् । परिमार्जन्ति , परिमृजन्ति । ऋत इति किम् ? ममार्ज । स्वर इति किम् ? मृज्वः ॥४३||
सिचि परस्मै समानस्याऽङिति ।४।३॥४४॥ १. षयेऽनिटौ P1मू, P2, P3, J2मू, पा१ विना ।। २. षये सिजा P1मू, P2,3, पा१,३,४ विना ।। ३. पये पा१,३,४, P1,2,3, J2 विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org