________________
श्री सिद्धहेमचन्द्रशब्दानुशासनम् ।
अशब्दसंज्ञायां वचेर्घ्यणि को न स्यात् । वाच्यम् । अशब्दनानीति किम् ? वाक्यम् ||११९||
भुज- न्युजं पाणि- रोगे |४|१|१२० ॥
भुजेर्म्युजेश्च घञन्तस्य पाणौ रोगे चार्थे यथासंख्यं भुजन्युजौ निपात्येते । भुजः पाणिः, न्युजो रोगः || १२० || वीरुन्- न्यग्रोधौ । ४।१।१२१ ॥
7
विपूर्वस्य रुहे: किपि न्यक्पूर्वस्य चाऽचि वीरुन्यग्रोधौ एतौ धान्तौ निपात्येते | वीरुत्, न्यग्रोधः ॥ १२१ ॥
*इत्याचार्यश्रीहेमचन्द्रविरचितायां
सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ * चतुर्थस्याध्यायस्य प्रथमः पादः समाप्तः ||४|१||
कुर्वन् कुन्तलशैथिल्यं मध्यदेशं निपीडयन् । अङ्गेषु विलसन् भूमेर्भर्ताऽभूद् भीमपार्थिवः || १३ ||
१८७
१. ★★ P2, P3, पा१, ३, J2 मध्ये नास्ति ।। २. समाप्तः J2, P2, 3, पा३, ५ मध्ये
एव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org