________________
१८६
स्वोपज्ञलघुवृत्तिविभूषितं
रात् परयो: छ्वोरनुनासिकादौ क्वौ धुडादौ च प्रत्यये लुक् स्यात् । मोर्मा , मू: , मूर्तः: ; तोर्मा , तू: , तूर्णः ॥११०।।
क्तेऽनिटश्च-जोः क-गौ घिति ।४।१११११॥ क्तेऽनिटो धातोश्च-जोर्घिति यथासंख्यं क-गौ स्याताम् । पाक: , भोग्यम् । क्तेऽनिट इति किम् ? सङ्कोच: , कूजः ॥१११।।
न्य द्ग -मेघाऽऽदयः ।४।१।११२॥ न्यवादयः कत्वे , उद्गादयो गत्वे , मेघादयो घत्वे कृते निपात्यन्ते । न्यङ्कुः , शोकः ; उद्गः , न्युद्ग: ; मेघ: , ओघः ।।११२।।
न वञ्चेर्गतौ।४।१।११३॥ गत्यर्थस्य वञ्चे: कत्वं न स्यात् । वञ्च वञ्चन्ति । गताविति किम् ? वर्षं काष्ठम् ॥११३।।
यजेर्यज्ञाङ्गे।४।१११४॥ यज्ञाङ्गवृत्तेर्यजेर्गत्वं न स्यात् । पञ्च प्रयाजाः । यज्ञाङ्ग इति किम् ? प्रयाग:
||११४||
घ्यण्यावश्यके ।४।१।११५॥ आवश्यकोपाधिके घ्यणि च-जोः क-गौ न स्याताम् । अवश्यपाच्यम् , अवश्यरञ्ज्यम् । आवश्यक इति किम् ? पाक्यम् ।।११५।।
नि-प्राद् युजः शक्ये।४।१।११६॥ आभ्यां युज: शक्ये गम्ये घ्यणि गो न स्यात् । नियोज्य: , प्रयोज्य: । शक्य इति किम् ? नियोग्यः ।।११६।।।।
भुजो भक्ष्ये ।४।१११७॥ भुजो भक्ष्यार्थे घ्यणि गो न स्यात् । भोज्यं पयः । भक्ष्य इति किम् ? भोग्या भूः ॥११७॥
त्यज-यज-प्रवचः ।४।१।११८॥ एषां घ्यणि क-गौ न स्याताम् । त्याज्यम् , याज्यम् , प्रवाच्यः ॥११८।।
वचोऽशब्दनाम्नि ।४।१११९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org