________________
१८८
स्वोपज्ञलघुवृत्तिविभूषितं
[द्वितीयः पादः ]
आत् सन्ध्यक्षरस्य ।४।२।१॥ धातो: सन्ध्यक्षरान्तस्याऽऽत् स्यात् । संव्याता , सुग्ल: । धातोरित्येव-गोभ्याम् ॥१॥
न शिति ।४।२।२॥ सन्ध्यक्षरान्तस्य शिति विषयभूते आत् न स्यात् । संव्ययति ।।२।।
व्यस्थव्-णवि ।४।२।३॥ व्य: थवि णवि च विषये आन्न स्यात् । संवित्र्याय , संविव्ययिथ ।।३।।
स्फुर-स्फुलोजि ।४।२।४॥ अनयो: सन्ध्यक्षरस्य घञि आत् स्यात् । विस्फार: , विस्फालः ॥४॥
वाऽपगुरो णमि ।४।२।५॥ अपपूर्वस्य गुरे: सन्ध्यक्षरस्य णम्याद्वा स्यात्। अपगारमपगारम् , अपगोरमपगो रम् ।।५।।
दीङः सनि वा ।४।२६॥ दीङ: सन्याद्वा स्यात् । दिदासते , दिदीषते ।।६।।
यबक्ङिति ।४।२।७॥ दीडो यपि , अक्ङिति च विषये आत् स्यात् । उपदाय , उपदायो वर्त्तते
॥७॥
मिग्-मीगोऽखलचलि ।४।२।८॥ अनयोर्यपि खल्-अच्-अल्वर्जेऽक्ङिति च विषये आत् स्यात्।निमाय , निमाता ; प्रमाय , प्रमाता । अखलचलीति किम् ? ईषन्निमयः , दुष्प्रमय: , मय: , आमय: ; निमयः ; प्रमयः ।।८।।
लीङ्-लिनोर्वा ।४।२।९॥ अनयोर्यपि खल्-अच्-अल्वर्जेऽक्ङिति च विषये आद्वा स्यात् । विलाय , विलीय ; विलाता , विलेता । अखलचलीत्येव-ईषद्विलय: , विलयः , विलयोऽस्ति ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org