________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१८३
वृश्चति ; भृष्टः , भृजति ; पृष्टः , पृच्छा ।।८४||
व्ये-स्यमोर्यङि ।४।११८५॥ व्येग्-स्यमो: सस्वरान्तस्था यङि वृत् स्यात् । वेवीयते , सेसिमीति ॥८५।।
चायः की।४।१८६॥ चायो यङि की: स्यात् । चेकीत: ।।८६।।
द्वित्वे ह्वः ।४।११८७॥ ह्वेगो द्वित्वविषये सस्वरान्तस्था य्वृत् स्यात् । जुहूषति ।।८७||
णौ ङ-सनि ।४।११८८॥ ढेगः सस्वरान्तस्था ङपरे सन्परे च णौ विषये यवृत् स्यात् । अजूहवत् , जुहावयिषति ।।८।।
श्वेर्वा ।४।१८९॥ श्वे: सस्वरान्तस्था ङ-सन्परे णौ विषये वृद्वा स्यात् । अशूशवत् , अशिश्वयत् ; शुशावयिषति , शिश्वाययिषति ।।८९||
वा परोक्षा-यङि ।४।११९०॥ श्वे: सस्वरान्तस्था परोक्षायडोर्वृद्वा स्यात् । शुशाव , शिश्वाय । शोशूयते , शेश्वीयते ॥९०॥
प्यायः पी।४।११९१॥ . प्याये: परोक्षा-यङो: पी: स्यात् । आपिप्ये , आपेपीत: ॥९१।।
क्तयोरनुपसर्गस्य ।४।०९२॥ अनुपसर्गस्य प्याये: क्त-क्तवत्वोः पी: स्यात् । पीनम् , पीनवन् मुखम् । अनुपसर्गस्येति किम् ? प्रप्यानो मेघः ॥९२।।
आङोऽन्थूधसोः ।४।११९३॥ आङ: परस्य प्यायेरन्धावूधसि चार्थे क्तयोः परत: पी: स्यात् । आपीनोऽन्धु: , आपीनमूधः । अन्धूधसोरिति किम् ? आप्यानश्चन्द्रः । आङ एवेति नियमात् प्राप्यानमूधः ॥१३॥ १. ङसन्परे P2, P3, J3 पा३,४,५ विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org