________________
१८४
स्वोपज्ञलघुवृत्तिविभूषितं
स्फायः स्फी वा ।४।११९४॥ स्फायतेः क्तयोः परयोः स्फीर्वा स्यात् । स्फीत: , स्फीतवान् ; स्फात: , स्फातवान् ।।९४||
प्रसमः स्त्यः स्ती।४।१।९५॥ प्रसम्समुदायपूर्वस्य स्त्य: क्तयोः परयोः स्ती: स्यात् । प्रसंस्तीत: , प्रसंस्तीतवान् । प्रसम इति किम् ? संप्रस्त्यानः ।।९५।।
प्रात् तश्च मो वा ।४।१९६॥ प्रात् केवलात् परस्य स्त्य: क्तयोः परयो: स्ती: स्यात् , क्तयोस्तो म् च वा। प्रस्तीतः , प्रस्तीतवान् ; प्रस्तीमः , प्रस्तीमवान् ।।९६।।
श्यः शी द्रवमूर्ति-स्पर्शे नश्वाऽस्पर्शे ।४।१।९७॥ मूर्तिः काठिन्यम् , द्रवमूर्ति-स्पर्शार्थस्य श्य: क्तयोः परयोः शी: स्यात् , तद्योगे क्तयोस्तोऽस्पर्शविषये न् च । शीनम् , शीनवद् घृतम् , शीतं वर्तते , शीतो वायुः ॥९७||
प्रतेः ।४।११९८॥ प्रते: परस्य श्य: क्तयोः परयोः शी: स्यात् , तद्योगे क्तयो: तो न च । प्रतिशीन: , प्रतिशीनवान् ।।९८।।
वाऽभ्यवाभ्याम् ।४।११९९॥ आभ्यां परस्य श्य: क्तयोः परयो: शीर्वा स्यात् , तद्योगे च क्तयोस्तोऽस्पर्शे नश्च । अभिशीन: , अभिशीनवान् ; अभिश्यान: , अभिश्यानवान् ; अवशीनम् , अवश्यानं हिमम् ; अवशीनवान् , अवश्यानवान् ।।९९।।
श्रः शृतं हविः-क्षीरे ।४।१।१००॥ श्राते: श्रायतेश्च क्ते हविषि क्षीरे चार्थे शृर्निपात्यते । शृतं हविः , शृतं क्षीरं स्वयमेव । हवि:क्षीर इति किम् ? श्राणा यवागू: ॥१०॥
श्रपेः प्रयोक्त्रैक्ये ।४।१।१०१॥ श्राते: श्रायतेर्वा ण्यन्तस्यैकस्मिन् प्रयोक्तरि क्ते परे हवि:-क्षीरयोः शृर्निपात्यते । शृतं हविः क्षीरं वा चैत्रेण । हवि:क्षीर इत्येव-श्रपिता यवागू: । प्रयोक्त्रैक्य इति किम् ? श्रपितं हविश्चैत्रेण मैत्रेण ।।१०१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org