________________
१८२
स्वोपज्ञलघुवृत्तिविभूषितं
अविति वा ।४।११७५॥ वेगोऽयन्तस्याऽविति परोक्षायां वृद्वा न स्यात् । ववुः , ऊवुः ।।७।।
ज्यश्च यपि ।४।११७६॥ ज्यो वेगश्च यपि वृन्न स्यात् । प्रज्याय , प्रवाय ।।७६।।
व्यः ।४।११७७॥ व्यो यपि य्वन्न स्यात् । प्रत्याय ॥७७||
संपरेर्वा ।४।११७८॥ आभ्यां परस्य व्यो यपि य्वृद्वा न स्यात् । संव्याय , संवीय ; परिव्याय परिवीय ||७८||
यजादि-वचेः किति ।४।११७९॥ यजादेर्वचेश्च सस्वरान्तस्था किति परे य्वृत् स्यात् । ईजुः , ऊयुः . ऊचुः । कितीति किम् ? यक्षीष्ट ।।७९||
स्वपेर्यङ्-डे च ।४।१८०॥ स्वपेर्यङि ङे किति च परे सस्वरान्तस्था य्वृत् स्यात् । सोषुप्यते , असूषुपत् , सुषुप्सति ।।८०॥
ज्या-व्यधः क्ङिति ।४।१८१॥ ज्या-व्यधो: सस्वरान्तस्था किति डिति य्वृत् स्यात् । जीयात् , जिनाति , विध्यात् , विध्यति ।।८१।।
व्यचोऽनसि ।४।१८२॥ व्यचे: सस्वरान्तस्था अस्वर्जे क्ङिति यवृत् स्यात् । विचति । अनसीति किम् ? उरुव्यचाः ।।८२।।
वशेरयङि।४।११८३॥ वशेः सस्वरान्तस्था अयङि डिति य्वृत् स्यात् । उष्टः , उशन्ति । अयङीति किम् ? वावश्यते ॥८३॥
ग्रह-व्रस्च-भ्रस्ज-प्रच्छः ।४।१।८४॥ एषां सस्वरान्तस्था ङिति यवृत् स्यात् । जगृहुः , गृह्णाति ; वृक्ण: ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org