SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पापच्यते ॥५१॥ जप-जभ-दह-दश-भञ्ज-पशः ।४।११५२॥ एषां यङन्तानां द्वित्वे पूर्वस्य मुरन्त: स्यात् । जञ्जप्यते , जञ्जभ्यते , दन्दह्यते , दन्दश्यते , बम्भज्यते , पम्पश्यते ।।५२।। ___ चर-फलाम् ।४।११५३॥ एषां यङतानां द्वित्वे पूर्वस्य मुरन्त: स्यात् । चञ्चूर्यते , पम्फुल्यते ।।५३।। ति चोपान्त्याऽतोनोदुः।४।१।५४॥ यङन्तानां चर-फलां तादौ च प्रत्यये उपान्त्यस्याऽत उ: स्यात् , न च तस्यौत् । चञ्चूर्यते , पम्फुल्यते , चूर्तिः , प्रफुल्ति: । अत इति किम् ? चञ्चार्यते , पम्फाल्यते । अनोदिति किम् ? चंचूर्ति , पम्फुल्ति ॥५४|| क्रमतां री।४।११५५॥ ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीरन्त: स्यात् । नरीनृत्यते ।।५५।। ___ रि-रौ च लुपि ।४।११५६॥ ऋमतां यङो लुपि द्वित्वे पूर्वस्य रि-रौ रीश्चान्त: स्यात् । चरिकर्त्ति , चर्कर्ति , चरीकर्त्ति ॥५६॥ निजां शित्येत् ।४।११५७॥ __ निजि-विजि-विषां शिति द्वित्वे पूर्वस्यैत् स्यात् । नेनेक्ति , वेवेक्ति , वेवेष्टि । शितीति किम् ? निनेज ॥५७|| पृ-भृ-मा-हाङामिः ।४।१५८॥ एषां शिति द्वित्वे पूर्वस्य इ: स्यात् । पिपर्त्ति , इयर्ति , बिभर्ति , मिमीते , जिहीते । हाङिति किम् ? जहाति । शितीत्येव-पपार ॥५८।। सन्यस्य ।४।१५९॥ द्वित्वे पूर्वस्यात: सनि परे इ: स्यात् । पिपक्षति । अस्येति किम् ? पापचिषते ॥५९|| ओर्जा-ऽन्तस्था-पवर्गेऽवर्णे।४।१६०॥ द्वित्वे पूर्वस्योतोऽवर्णान्ते जान्तस्थापवर्गे परे सनि इ: स्यात् । जिजावयिषति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy