________________
१८०
स्वोपज्ञलघुवृत्तिविभूषितं
, यियविषति , यियावयिषति , रिरावयिषति , लिलावयिषति , पिपविषते , पिपावयिषति , मिमावयिषति । जान्तस्थापवर्ग इति किम् ? जुहावयिषति । अवर्ण इति किम् ? बुभूषति ॥६०॥
श्रु-सु-द्रु-पु-प्लु-च्योर्वा ।४।१।६१॥ एषां सनि द्वित्वे पूर्वस्योतोऽवर्णान्तायामन्तस्थायां परस्याम् इर्वा स्यात् । शिश्रावयिषति , शुश्रावयिषति ; सिस्रावयिषति , सुस्रावयिषति ; दिद्रावयिषति , दुद्रावयिषति ; पिप्रावयिषति , पुप्रावयिषति ; पिप्लावयिषति , पुप्लावयिषति ; चिच्यावयिषति , चुच्यावयिषति ॥६१॥
स्वपो णावुः ।४।१।६२॥ स्वपेरें सति द्वित्वे पूर्वस्योत् स्यात् । सुष्वापयिषति । * णाविति किम् ? सिष्वापकीयिषति * । स्वपो णाविति किम् ? स्वापं चिकीर्षति सिष्वापयिषति । स्वपो णौ सति द्वित्व इति किम् ? सोषोपयिषति ॥६२।।
___असमानलोपे सन्वल्लघुनि डे।४।१।६३॥ न विद्यते समानस्य लोपो यस्मिन् तस्मिन् ङपरे णौ द्वित्वे , पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्यं स्यात् । अचीकरत् , अजीजवत् , अशिश्रवत् । लघुनीति किम् ? अततक्षत् । णावित्येव-अचकमत । असमानलोप इति किम् ? अचकथत् ।।६३।।
लघोर्दीर्घोऽस्वरादेः ।४।११६४॥ अस्वरादेर्डपरेऽसमानलोपे णौ द्वित्वे पूर्वस्य लघोलघुनि धात्वक्षरे परे दीर्घ: स्यात् । अचीकरत् । लघोरिति किम् ? अचिक्कणत् । अस्वरादेरिति किम् ? औण्णुनवत् ।।६४॥
स्मृ-दृ-त्वर-प्रथ-प्रद-स्तृ-स्पशेरः ।४।११६५॥ एषामसमानलोपे ङपरे णौ द्वित्वे पूर्वस्याऽत् स्यात् । असस्मरत् , अददरत् , अतत्वरत् , अपप्रथत् , अमम्रदत् , अतस्तरत् , अपस्पशत् ॥६५॥
वा वेष्ट-चेष्टः ।४।१॥६६॥ १. पिपावयिपति P1, P3, पार,५ पामू३ मध्ये नास्ति || २.* * P2, P3, पा३,४,५, J3 विना नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org