SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ - स्वोपज्ञलघुवृत्तिविभूषितं तिर्वा ष्ठवः | ४|११४३॥ " ष्ठवेर्द्वित्वे सति पूर्वस्य तिर्वा स्यात् । तिष्ठेव टिष्ठेव ||४३|| व्यञ्जनस्याऽनादेर्लुक् |४| १ |४४॥ द्वित्वे पूर्वस्य व्यञ्जनस्याऽनादेर्लुक् स्यात् । जग्ले । अनादेरिति किम् ? आदेर्मा भूत् -पपाच ॥४४|| १७८ अघोषे शिटः | ४|१|४५ ॥ द्वित्वे पूर्वस्य शिटस्तत्सम्बन्धिन्येवाऽघोषे लुक् स्यात् । चुश्च्योत । अघोष इति किम् ? || ४५॥ क-ङश्च - ञ् |४|१|४६॥ द्वित्वे पूर्वयोः क-ङोर्यथासंख्यं च - औ स्याताम् । चकार डुवे ||४६ ॥ न कवतेर्यङः | ४|१|४७॥ यङन्तस्य कवतेर्द्वित्वे सति पूर्वस्य कश्वो न स्यात् । कोकूयते खरः । कवतेरिति किम् ? कौति - कुंवत्योः - चोकूयते । यङ इति किम् ? चुकुवे ||४७ || आ-गुणावन्यादेः |४|११४८ ॥ यङन्तस्य द्वित्वे पूर्वस्य न्याद्यागमवर्जस्य आ - गुणौ स्याताम् । पापच्यते, लोलूयते । अन्यादेरिति किम् ? वनीवच्यते, यंयम्यते ||४८ || न हाको लुपि | ४|१|४९॥ हाको द्वित्वे पूर्वस्य यङो लुपि आ न स्यात् । जहेति ॥ ४९ ॥ वञ्च-स्रंस-ध्वंस-भ्रंश- कस - पत-पद- स्कन्दोऽन्तो नी । ४ । १ ५० ॥ एषां यङन्तानां द्वित्वे पूर्वस्य नीरन्तः स्यात् । वनीवच्यते, सनीस्रस्यते , दनीध्वस्यते, बनीभ्रश्यते चनीकस्यते पनीपत्यते पनीपद्यते चनीस्कद्यते 114011 " Jain Education International , 7 , मुरतोऽनुनासिकस्य |४|११५१॥ आत् परो योऽनुनासिकस्तदन्तस्य यङन्तस्य द्वित्वे पूर्वस्य मुरन्तः स्यात् । बम्भण्यते । अत इति किम् ? तेतिम्यते । अनुनासिकस्येति किम् ? १. कुवत्योर्मा भूत् P2 J3 || For Private & Personal Use Only " www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy