SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १७६ स्वोपज्ञलघुवृत्तिविभूषितं ; त्रेपे ; फेलुः , फेलिथ ; भेजुः , भेजिथ ।।२५।। जु-भ्रम-वम-त्रस-फण-स्यम-स्वन-राज-भ्राज-भ्रास-भ्लासो वा ।४।१।२६॥ एषां स्वरस्याऽवित्परोक्षा-सेट्थवोरेर्वा स्यात् , न च द्विः । जेरुः , जजरु: ; जेरिथ , जजरिथ । भ्रमुः , बभ्रमुः ; भ्रमिथ , बभ्रमिथ । वेमुः , ववमु: ; वेमिथ , ववमिथ । त्रेसुः , तत्रसुः ; त्रेसिथ , तत्रसिथ । फेणु: , पफणु: ; फेणिथ , पफणिथ । स्येमुः , सस्यमु: ; स्येमिथ , सस्यमिथ । स्वेनुः , सस्वनुः ; स्वेनिथ , सस्वनिथ । रेजुः , रराजुः ; रेजिथ , रराजिथ । भ्रेजे , बभ्राजे । भ्रसे , बभ्रासे । भ्लेसे , बभ्लासे ॥२६॥ वा श्रन्थ-ग्रन्थो न्लुक् च ।४।१।२७॥ अनयोः स्वरस्यावित्परोक्षा-सेट्थवोरेर्वा स्यात् , तद्योगे च नो लुक् , न च द्विः । श्रेथु: , शश्रन्थुः ; श्रेथिथ , शश्रन्थिथ । ग्रेथुः , जग्रन्थुः ; ग्रेथिथ , जग्रन्थिथ ॥२७॥ दम्भः ।४।१।२८॥ दम्भे: स्वरस्यावित्परोक्षायाम् ए: स्यात् , न च द्विः , तद्योगे च नो लुक् । देभुः ॥२८॥ थे वा।४।२९॥ दम्भे: स्वरस्य थवि एर्वा स्यात् , तद्योगे च नो लुक् , न च द्विः । देभिथ , ददम्भिथ ।।२९|| न शस-दद-वादि-गुणिनः ।४।१॥३०॥ शसि-दद्योदिनां गुणिनां च स्वरस्य एर्न स्यात् । विशशसुः , विशशसिथ ; दददे ; ववले ; विशशरु: , विशशरिथ ॥३०॥ हौ दः ।४।१।३१॥ दासंज्ञस्य हौ परे ए: स्यात् , न च द्विः । देहि , धेहि ॥३१।। देर्दिगिः परोक्षायाम् ।४।१॥३२॥ देङ: परोक्षायां दिगि: स्यात् , न च द्विः । दिग्ये ।।३२।। उ पिबः पीप्य् ।४।१॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy