________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१७५
-अदिधिषति ॥१७॥
दम्भो धिप्-धीप् ।४।१।१८॥ दम्भे: सि सनि धिप्-धीपौ स्यातां न चाऽस्य द्विः । धिप्सति , धीप्सति । सीत्येव-दिदम्भिषति ॥१८॥
अव्याप्यस्य मुचेर्मोग्वा ।४।१।१९॥ मुचेरकर्मण: सि सनि मोक् वा स्यात् , न चाऽस्य द्विः । मोक्षति , मुमुक्षति चैत्रः । अव्याप्यस्येति किम् ? मुमुक्षति वत्सम् ।।१९।।
मि-मी-मा-दामित् स्वरस्य ।४।१॥२०॥ मि-मी-मा-दासंज्ञानां स्वरस्य सि सनि इत् स्यात् , न च द्विः । मित्सति , मित्सते , मित्सति , दित्सति , धित्सति ॥२०॥
रभ-लभ-शक-पत-पदामिः ॥४॥१२॥ एषां स्वरस्य सि सनि इ: स्यात् , न च द्वि: । आरिप्सते , लिप्सते , शिक्षति , पित्सति , पित्सते । सीत्येव-पिपतिषति ॥२१॥
राधेर्वधे ।४।२२॥ राधेहिँसाऽर्थस्य सि सनि स्वरस्य इ: स्यात् , न च द्वि: । प्रतिरित्सति । वध इति किम् ? आरिरात्सति ।।२२।।
अवित्परोक्षा-सेट्थवोरेः ।४।०२३॥ राधेहिँसार्थस्याऽविति परोक्षायां थवि च सेटि स्वरस्य ए: स्यात् , न च द्विः । रेधु: , रेधिथ । अविदिति किम् ? अपरराध । वध इत्येव-आरराधतुः ॥२३॥
अनादेशादेरकव्यञ्जनमध्येऽतः ।।१२४॥ अवित्परोक्षा-सेट्थवोः परयोर्योऽनादेशादिस्तत्सम्बन्धिन: स्वरस्याऽतोऽसहायव्यञ्जनयोर्मध्यगतस्य ए: स्यात् , न च द्विः । पेचुः , पेचिथ , नेमु: , नेमिथ । अनादेशादेरिति किम् ? बभणतुः । एकव्यञ्जनमध्य इति किम् ? ततक्षिथ । अत इति किम् ? दिदिवुः । सेट्थवीत्येव-पपक्थ ॥२४॥
तृ-त्रप-फल-भजाम् ।४।१।२५॥ एषामवित्परोक्षा-सेट्थवो: स्वरस्य ए: स्यात् , न च द्विः । तेरुः , तेरिथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org