________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१७१
स्रवत्युदकं कुण्डिका , स्रवत्युदकं कुण्डिकाया: । अकर्मक्रिय इति किम् ? भिद्यमानः कुशूल: पात्राणि भिनत्ति ॥८६॥
पचि-दुहेः ।३।४।८७॥ एकधातौ कर्मस्थक्रियया अकर्मिकया सकर्मिकया वा एकक्रिये कर्त्तरि , आभ्यां ञि-क्या-ऽऽत्मनेपदानि स्युः । अपाचि पच्यते पक्ष्यते वा ओदनः स्वयमेव , अदोहि दुग्धे अदुग्ध वा गौः स्वयमेव ।।८७।।
न कर्मणा जिच् ।३।४।८८॥ पचि-दुहिभ्यां कर्मणा योगे अनन्तरोक्ते कर्तरि त्रिच् न स्यात् । अपक्तोदुम्बर: फलं स्वयमेव , अदुग्घ गौः पयः स्वयमेव । कर्मणेति किम् ? अपाच्योदन: स्वयमेव । अनन्तरोक्ते कर्त्तरीत्येव-अपाचि उदुम्बर: फलं वायुना ।।८८।।
रुधः ।३।४।८९॥ रुधोऽनन्तरोक्ते कर्तरि जिच् न स्यात् । अरुद्ध गौः स्वयमेव ।।८९।।
स्वर-दुहो वा ।३।४।९०॥ स्वरान्ताद् दुहेश्वानन्तरोक्ते कर्तरि बिच् वा स्यात् । अकृत अकारि वा कट: स्वयमेव ; अदुग्ध अदोहि वा गौः स्वयमेव ।।९०॥
तपः कत्रनुतापे च ।३।४।९१॥ तपे: कर्मकर्त्तरि , कर्त्तर्यनुतापे चार्थे जिच् न स्यात् । अन्ववातप्त कितव: स्वयमेव , अतप्त तपांसि साधुः , अन्वतप्त चैत्रेण , अन्ववातप्त पाप: स्वकर्मणा । कत्रनुतापे चेति किम् ? अतापि पृथिवी राज्ञा ॥९१।। ।
णि-स्नु-थ्यात्मनेपदाऽकर्मकात् ।३।४।९२॥ ___ण्यन्तात् स्नुश्रिभ्यामात्मनेपदविधावकर्मकेभ्यश्च कर्मकर्त्तरि ञिच् न स्यात् । अपीपचदोदनं चैत्रेण मैत्रः , अपीपचतौदन: स्वयमेव ; प्रास्नोष्ट गौः स्वयमेव ; उदशिश्रियत दण्डः स्वयमेव ; व्यकृत सैन्धव: स्वयमेव ।।९२।।
भूषार्थ-सन्-किरादिभ्यश्च त्रि-क्यौ ।३।४।९३॥ भूषार्थेभ्य: , सन्नन्तेभ्य: , किरादिभ्यो ण्यादिभ्यश्च कर्मकर्तरि भि-क्यौ न स्याताम् । अलमकृत कन्या स्वयमेव , अलंकुरुते कन्या स्वयमेव ; सन-अचिकीर्षिष्ट , चिकीर्षते वा कट: स्वयमेव ; किरादि -अकीष्ट , किरते वा पांसुः स्वयमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org