SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १७० स्वोपज्ञलघुवृत्तिविभूषितं । स्तनाति , स्तनोति ; स्तुभ्नाति , स्तुभ्नोति ; स्कध्नाति , स्कनोति ; स्कुनाति , स्कुनोति ; स्कुनाति , स्कुनोति ।।७८॥ क्रयादेः ।३।४।७९॥ क्रयादेः कर्तृविहिते शिति श्ना स्यात् । क्रीणाति , प्रीणाति ॥७९।। व्यञ्जनाच्छ्नाहेरानः ।३।४।८०॥ व्यञ्जनात् परस्य श्नायुक्तस्य हे: आन: स्यात् । पुषाण , मुषाण । व्यञ्जनादिति किम् ? लुनीहि ।।८०॥ ___ तुदादेः शः ।३।४।८१॥ एभ्य: कर्तृविहिते शिति श: स्यात् । तुदति , तुदते ।।८१।। रुधां स्वरानो नलुक् च ।३।४।८२॥ रुधादिनां स्वरात् परः कर्तृविहिते शिति नः स्यात् , तद्योगे च प्रकृते! लुक् च । रुणद्धि , हिनस्ति ॥८२।। कृग्-तनादेरुः ।३।४।८३॥ कृगस्तनादिभ्यश्च कर्तृविहिते शिति उ: स्यात् । करोति , तनोति ।।८३।। सृजः श्राद्धे जि-क्या-ऽऽत्मने तथा ।३।४।८४॥ सृजः पराणि श्रद्धावति कर्तरि जि-क्या-ऽऽत्मनेपदानि स्युस्तथा यथा विहितानि । असर्जि , सृज्यते , स्रक्ष्यते वा मालां धार्मिकः । श्राद्ध इति किम् ? व्यत्यसृष्ट माले मिथुनम् ।।८४|| तपेस्तपःकर्मकात् ।३।४।८५॥ तपेस्तपःकर्मकात् कर्तरि जिक्यात्मनेपदानि स्युस्तथा । तप्यते तप: साधु: । तप इति किम् ? उत्तपति स्वर्णं स्वर्णकारः । कर्मेति किम् ? तपः साधुं तपति ।।८५।। एकधातौ कर्मक्रिययैकाऽकर्मक्रिये ।३।४।८६॥ एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य तस्मिन् कर्तरि कर्मकर्तृरूपे धातोर्बिक्यात्मनेपदानि स्युः । अकारि क्रियते करिष्यते वा कट: स्वयमेव । एकधाताविति किम् ? पचत्योदनं चैत्र: , सिध्यत्योदन: स्वयमेव । कर्मक्रिययेति किम् ? साध्वसिश्छिनत्ति । एकक्रिय इति किम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy