SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १६८ स्वोपज्ञलघुवृत्तिविभूषितं लदितो द्युतादे: पुष्यादेश्च कर्त्तर्यद्यतन्यां परस्मैपदेऽङ् स्यात् । अगमत् ; अद्युतत् , अरुचत् ; अपुषत् , औचत् । परस्मैपद इति किम् ? समगंस्त ॥६४॥ ऋदिश्वि-स्तम्भू-ग्रुचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चू-ज्रो वा ।३।४।६५॥ ऋदित: श्व्यादेश्च कर्त्तर्यद्यतन्यां परस्मैपदेऽङ् वा स्यात् । अरुधत् , अरौत्सीत् ; अश्वत् , अश्वयीत् ; अस्तभत् , अस्तम्भीत् ; अमुचत् , अम्रोचीत् , अम्लुचत् , अम्लोचीत् ; अग्रुचत् , अग्रोचीत् ; अग्लुचत् , अग्लोचीत् ; अग्लुचत् , अग्लुञ्चीत् ; अजरत् , अजारीत् ।।६५।। जिच् ते पदस्तलुक् च ।३।४।६६॥ पद्यते: कर्त्तर्यद्यतन्यास्ते परे जिच् स्याद् , निमित्ततस्य च लुक् । उदपादि । त इति किम् ? उदपत्साताम् ॥६६।। दीप-जन-बुधि-पूरि-ताय-प्यायो वा ।३।४।६७॥ एभ्य: कर्त्तर्यद्यतन्यास्ते परे जिच् वा स्यात् , तलुक् च । अदीपि , अदीपिष्ट ; अजनि , अजनिष्ट ; अबोधि , अबुद्ध ; अपूरि , अपूरिष्ट ; अतायि , अतायिष्ट ; अप्यायि , अप्यायिष्ट ॥६७।। भाव-कर्मणोः ।३।४।६८॥ सर्वस्माद् धातोर्भाव-कर्मविहितेऽद्यतन्यास्ते जिच् स्यात् , तलुक् च । आसि त्वया , अकारि कटः ।।६८|| स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशीः-श्वस्तन्यां जिट् वा ।३।४।६९॥ स्वरान्ताद् ग्रहादेश्च विहितासु भावकर्मजासु स्य-सिजाशी:-श्वस्तनीषु निट वा स्यात् । दायिष्यते , दास्यते ; अदायिषाताम् , अदिषाताम् ; दायिषीष्ट , दासीष्ट ; दायिता , दाता। ग्राहिष्यते , ग्रहीष्यते ; अग्राहिषाताम् , अग्रहीषाताम् ; ग्राहिषीष्ट ग्रहीषीष्ट ; ग्राहिता , ग्रहीता । दर्शिष्यते , द्रक्ष्यते ; अदर्शिषाताम् , अदृक्षाताम् ; दर्शिषीष्ट , दृक्षीष्ट ; दर्शिता , द्रष्टा । घानिष्यते , हनिष्यते ; अघानिषाताम् , अवधिषाताम् ; घानिषीष्ट , वधिषीष्ट ; घानिता , हन्ता ॥६९॥ क्यः शिति ।३॥४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy