SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । श्लिषः ।३।४।५६॥ श्लिषोऽनिटोऽद्यतन्यां सक् स्यात् । आश्लिक्षत् कन्यां मैत्र: । अनिट इत्येव-अश्लेषीत् ॥५६॥ नाऽसत्त्वाऽऽश्लेषे ।।४।५७॥ श्लिषोऽप्राण्याश्श्लेषार्थात् सक् न स्यात् । उपाश्लिषत् जतु च काष्ठं च । असत्त्वाऽऽश्लेष इति किम् ? व्यत्यश्लिक्षन्त मिथुनानि ॥५७|| णि-शि-द्रु-स्रु-कमः कर्तरि ङः ।३।४।५८॥ ण्यन्तात् श्र्यादेश्च कर्त्तर्यद्यतन्यां ङ: स्यात् । अचीकरत् , अशिश्रियत् , अदुद्रुवत् , असुस्रुवत् , अचकमत । कर्तरीति किम् ? अकारयिषातां कटौ मैत्रेण ।।५८॥ ट्धे-श्वेर्वा ।३।४।५९॥ आभ्यां कर्त्तर्यद्यतन्यां ङो वा स्यात् । अदधत् , अधात् ; अशिश्वियत् , अश्वत् । कर्त्तरीत्येव-अधिषातां गावौ वत्सेन ।।५९|| शास्त्यसू-वक्ति-ख्यातेरङ् ।३।४।६०॥ एभ्य: कर्त्तर्यद्यतन्यां अङ् स्यात् । अशिषत् , अपास्थत , अवोचत् , आख्यत् । कर्तरीत्येव-अशासिषातां शिष्यौ गुरुणा ॥६०।। सर्त्यर्तेर्वा ।३।४॥६॥ आभ्यां कर्त्तर्यद्यतन्याम् अङ् वा स्यात् । असरत् , असार्षीत् ; आरत् , आर्षीत् ॥६॥ ह्वा-लिप्-सिचः ।३।४।६२॥ एभ्य: कतर्यद्यतन्याम् अङ् स्यात् । आह्वत् , अलिपत् , असिचत् ।।६२।। वाऽऽत्मने ।३।४।६३॥ हादेः कर्त्तर्यद्यतन्यामात्मनेपदे वाऽङ् स्यात् । आह्वत , आह्वास्त ; अलिपत , अलिप्त ; असिचत , असिक्त ।।६३।। लदिद्-धुतादि-पुष्यादेः परस्मै ।३।४।६४॥ १. गुरुणा P2 J3 विना नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy